________________
अध्यात्मसारः
॥४२०॥
-शुद्धनया आत्मानं प्रत्यगज्योतिषमाहुः'एक श्रात्मेति सूत्रस्या-प्ययमेवाशयो मतः ।
प्रत्यगज्योतिषमात्मानमाहुः शुद्धनयाः खलु ॥३२॥ टी. श्रीस्थानांगसूत्रेऽपि यदुक्तं 'एगे आया' अर्थादात्मा त्वेक एवाऽस्तीन्यस्य सूत्रस्याऽप्यय मेवा ऽऽशयो मतः, खलु-निश्चये, शुद्धनया:-निश्चयनयविशेषशुद्धसंग्रहनयाद्या बन्धमोक्षादिशून्यशुद्धरूपप्रत्यगज्योतिषमात्मानमेव प्रतिपद्यन्ते, एतद्विनाऽऽत्मनः स्वरूपं नास्तीत्येतेषां मतममस्तीति ॥३२॥
-हे भगवन्नात्मन् प्रसीद प्रकाशय शुद्धरूपम्'प्रपञ्चसञ्चयक्लिष्टा-न्मायारूपाद बिभेमि ते ।
प्रसीद भगवन्नात्मन् , शुद्धरूपं प्रकाशय ॥३३॥ टी० ग्रन्थकारः श्रीमान स्वमात्मानं प्रार्थयते, यद् 'भो भगवन्नात्मन मयि प्रसीद-प्रसयो भव, तेतव, संमागत्मकप्रपश्चसश्चयेन 'क्लिष्टात' क्लेशविशेषमहितात , कपटात्मकमायास्वरूपादहं विमेमिभयवान भवामि, तम्मात् कारणात भवन्तं विज्ञपयाम्यहं मो पूज्यरूप भो भगवन भवतः शुद्धं-कर्मानाविलं मौलिकस्वरूपं प्रकाशय-प्रादुष्कृतं कुरु कुरु ॥३३॥
॥४२०॥
Jain Education Interne
Far Private & Personal use only
www.jainelibrary.org