________________
अध्यात्मसारः
॥४१९॥
'गन्धर्वनगरादीना-मम्बरे डम्बरो यथा ।
तथा संयोगजः सर्गो विलासो वितथाऽकृतिः ॥३०॥ टी० यथा सायं समये गगने मेघमालानिष्पनगन्धर्वनगरादीनामाडम्बर:-आभासो दृश्यते, स भ्रमात्मकः, बस्तुतो गन्धवनगरादिर्नास्ति, तथा संयोगजःसर्गः-संसारः (सर्वो) बिलामः-लीलाम्वरूपः, वितथाऽऽकृतिः मिथ्याऽऽकारमयोऽस्तीति ॥३०॥
- इति शुद्ध नयाऽऽयत्तमेकत्वं प्राप्तमाऽऽत्मनि'इति शुद्धनयाऽऽयत्त-मेकत्वं प्राप्तमात्मनि ।
अंशादिकल्पनाऽप्यस्य, नेष्टा यत्पूर्णवादिनः ॥३१।। टी० इत्येवं शुद्धनिश्चयनयेन सिद्धं भवति, यद् ‘आत्मनि ज्ञानादेश्चाऽन्यात्मनां यो भेदो व्यवहारनयेन मतोऽस्ति स भ्रान्तोऽस्ति, आत्मनि तु ज्ञानादेश्चाऽन्याऽऽत्मनामेकत्वमेव प्राप्तं भवति, किञ्चेष नयस्तु पूर्णस्वरूपमेव स्वरूपत्वेन वदन वर्ततेऽतोऽस्याऽऽत्मनः प्रदेशरूपांशादिकल्पनाऽपि 'नेष्टा' =न सम्मतिविषयीकृतेनि शुद्धनयस्तु पूर्णवाद्येव भवतीति ॥३१॥
॥४१९॥
Jain Education Intema
Far Private & Personal use only
|www.jainelibrary.org