________________
अध्यात्मसार:
॥४१८॥
-बितीयमुदाहरणम्'यथा स्वप्नाऽवबुद्धोऽर्थो, विबुद्धेन न दृश्यते ।
व्यवहारमतः सर्गो, ज्ञानिना न तथेक्ष्यते ॥२८॥ टी. यथा स्वप्नमध्ये दृष्टोऽर्थः, विबुद्धेन-जाग्रता न दृश्यते-न चक्षर्गोचरतां याति, 'व्यवहारमतः सर्गः'-सुषुप्ताऽवस्थातुल्यायो व्यवहारदृष्टौ यः संसार आत्मनि दृश्यते स जाग्रदयस्थातुल्यायां निश्चयदृष्टौ ज्ञानिना न तथेक्ष्यतेऽपि तु तस्याऽऽत्मा कर्ममुक्तः शुद्धस्वरूपमयो भासते, वस्तुस्थितिरेषेव ॥२८।।
-तृतीयमुदाहरणम्मध्याहने मृगतृष्णायां, पयःपूरो यथेक्ष्यते ।
तथा संयोगजः सर्गो, विवेकाख्यातिविप्लवे ॥२१॥ टी. निदाघे मध्याहने रविकरनिकरसम्बन्धानन्तरं दूरस्थग्णभूमो-मृगतृष्णायां पयःपूरो यथेक्ष्यते, तथा विवेकाख्यातिविप्लवे सति-विवेकामावरूपाज्ञानोत्पाते जाते सति, जीवकोभयक्रियासम्बन्धेन जानोऽयं मंमार इति भ्रमो जायते, वस्तुतः शुद्धनिष्क्रियजीवेन संसारोत्पादो न भवतीति ॥२९॥
- चतुर्थमुदाहरणम्
॥४१८॥
Jain Education Intema
For Private & Personal use only
Plwww.jainelibrary.org