________________
अध्यात्म
सार:
॥४१६॥
'कर्मणस्ते हि पर्याया नाऽऽत्मनः शुद्धसाक्षिणः ।
कर्म क्रियास्वभावं यदात्मात्वजस्वभाववान् ॥२५॥ टी० हीति निश्चये, तेन्नरनारकादिपर्यायाः, 'कर्मणः कर्मोपादानकारणजन्याः, आत्मा तु शुद्धसाक्षिरूपोऽस्ति, तस्मादेते पर्याया नाऽऽन्मनः शुद्धसाक्षिणः, यत्-यतः 'कर्म, क्रियास्वभावं' क्रियेव स्वभावो यस्य तत् कर्म, क्रियास्वभावमर्थाद् भिन्न भिन्नपर्यायोत्पादकरणरूपक्रियायाः स्वभावः कर्मणोऽस्ति, 'आत्मात्वजस्वभाववान =सर्वथा क्रियारूपजन्मादानाभावरूपस्वभाववानात्माऽस्ति, अर्थात् कर्मणः पर्याया नाऽऽत्मनो भवितुमर्हाः, तस्मात कर्मपर्यायस्थभेदेनाऽपि, नाऽऽत्मनि भेदः पात्यते इति ॥२५॥
-भवसगः कयं 'नाऽणूनां कर्मणो वाऽसौ, भवसर्गः स्वभावजः ।
एकैकविरहेऽभावान्न च तत्त्वाऽन्तरं स्थितम् ॥२६॥ टी. नन्वात्मसम्बन्धं विना केवलकर्मणा जन्मरणादिः कथं घटेतेति चेन्नैष जन्ममरणादिरूपो यः मंमारोऽस्ति स केवलकर्मपरमाणक्रियास्वभावेन जनयितु न शक्यते, तथा जीवस्वभावमात्रणाऽपि न जनयितु शक्यते यतो द्वयोर्मध्ये एकस्याऽपि विरहे संसारोऽसम्भवतः, तस्माद् द्वयोः संयोगेनैव संसारो
॥४१६॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org