________________
सारः
॥४१५॥
भिन्नैः पर्याय जहाति नैकत्वमात्मद्रव्यं सदाऽन्वयि
ननारकादिपर्यायै-रव्युत्पन्नविनश्वरैः ।
भिन्ने जहाति नैकत्व-मात्मद्रव्यं सदाऽन्वयि ॥२३॥ टी. वरं सन्त्वान्मनो नरनारकादयः पर्यायाः, ते पर्याया उत्पन्नविनश्वरास्तथाऽपि तेपा पर्यायाणां भिन्नत्वेनाऽऽत्मा, भिन्नो न भवति, स्वगतमेकत्वं न जहाति, अजहदेकत्ववानात्माऽस्ति, यतो नरनारकादिपर्यायपु आत्मद्रव्यस्य सदाऽन्वयित्वेन-नित्यसम्बन्धित्वेनैकत्वमजहन सिद्धम् ॥२३॥
-नरनारकादिभावेषु एक एवाऽत्मा निरञ्जन:यथैकं हेम केयूरकुगडलादिषु वर्तते ।
नृनारकादिभावेषु, तथाऽऽत्मैको निरञ्जनः ॥२४॥ टी० यथा सुवर्णस्य विकारेषु-केयूग्कुण्डलादिषु हेम-सुवर्णमेकं वर्तते, तथा नरनारकादिभावरूपेषु पर्यायपु, निरञ्जन:-निर्विकार आत्मा त्वेक एवाऽवतिष्ठते, ते पर्याया भिद्यन्ते तद्भदेनाऽऽत्मा, न भिद्यते एवेनि ॥२४॥
म, क्रियास्वभाव, यदात्मा त्वजस्वभाववान
॥४१५॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org