________________
अध्यात्म
सारः
॥९॥
Jain Education Internatio
क्व, इति द्वयोरन्तरं महद् भूतलाकाशयोरिव किञ्चाssध्यात्मिकं सुखं सर्वस्मिन् काले ज्ञानिभिः स्वतन्त्र - तया निर्भयतयाऽऽत्मन्यात्मनाऽनुभूयतेऽतः सत्यं नित्यं तत्प्रति सदादृष्टि देया, न पुनः पराधीने क्षयिणि समये पौद्गलिके पशुक्रियारूपे सुखाभासे विषयसुखे कदाचिदपि दृष्टिर्देयेति सूच्यते ० ॥९॥ आध्यात्मिक सुखशाली महावैषयिकसुखशालिनं न गणयत्येवश्रध्यात्मशास्त्रसम्भूत-सन्तोषसुख शालिनो । गणयन्ति न राजानं, न श्रीदं नाऽपि वासवम् | १० | टीकाः - अध्यात्मशास्त्रसम्भूतसन्तोषसुखशालिनः' इति = आत्मस्वरूपनिरूपकशाखाभ्यासादिद्वारा तत्सुपरिचयजन्यपरमसन्तोपसु खवन्तो मुनयः, पुण्यद्वारा कोऽपि मनोज्ञः पुद्गल आगतस्तत्र न कोऽपि हर्षोत्कर्षः, स न मदीयोऽपि तु परकीय एवेति संवेदनात् पापोदयद्वारा कोऽपि, चारुपुद्गलो गतोऽथवाऽमनोज्ञः प्राप्तस्तत्र नार्त्तध्यानं, पापविपाकस्य समतया सहनात् पापाऽपगमो भविष्यतीति संवेदनात् इत्यादिका - ध्यात्मशास्त्र शिक्षण जाताऽत्यन्त शान्तिसुखधारिणः, 'गणयन्ति न राजानं न श्रीदं नाऽपि वासवमिति =न राजानं गणयन्ति अर्थात् स्वसुखस्याग्रतः कश्चक्रवर्तितुल्यो भूपतिर्यतो राजाऽप्यसन्तुष्टः, 'न श्रीदं कुबेरं गणयन्ति - अर्थाद्मत्सन्तोषसुखस्याग्रतः कः श्रीदः १ यतः स वाह्यश्रियाऽऽश्रितोऽपि स्वात्मश्रिया विनाकृतः, 'नाऽपि गणयन्ति वासवमिति मम सन्तोषशमसुखिनोऽग्रतः को देवेन्द्रः १ यतो देवानां स्वाम्यपि विषयाशाया दास इति मन्यन्ते ॥ १० ॥
For Private & Personal Use Only
,
॥ ९ ॥
www.jainelibrary.org