________________
अध्यात्म
सारः
॥८॥
ख्येय इति उ०६० सू० अ०टी०] एवं परिभोगोपभोगवतामप्यर्थात कामभोगादिविषयरसरसिकाना, 'सङ्गीतकमयं' रासादिसहितं नृत्यवाद्यादिसहितं 'भामिनीगीतं'-कामिनीनां गानं 'प्रीतये' आनन्दफलप्रदं भवति, तथा 'योगिनां योगवतां (मोक्षोपायो योगो ज्ञान-श्रद्धानचरणात्मकः) इत्यभिधानकोशप्रतिपादितयोगार्थशालिनामित्यर्थः । 'मोक्षेण सहयोजनाद्योगः' इत्यभियुक्तोक्तेः, मोक्षयोजकसामग्रीसहितयोगलग्नानां 'अध्यात्मरसपेशलं, वैराग्यशान्तरसादिनानाविधात्मगुणाऽनुभवरसरुचिरं 'पद्यंप्रीतये'काव्यरचनामयं पद्यं महानन्दाय भवतीति ॥८॥ वैषयिकसुखाध्यात्मिकसुखयोर्महदन्तम्
कान्ताऽधरसुधाऽऽस्वादाद यूनां यज्जायते सुखम् ।
बिन्दुः पार्वे तदध्यात्म-शास्त्राऽऽस्वादसुखोदधेः ॥१॥ टीकाः-'यूनामिति-युवाऽवस्थावता कामरसलम्पटाना ‘कान्ताऽधरसुधाऽऽस्वादादिति-कविकल्पनाऽपेक्षया, कान्तायाः-प्रियतमायाः, 'अधरसुधायाः-अधःस्थौष्ठचुम्बनरूपसुधाया आस्वादाद् य आनन्दो जायते तदध्यात्मशास्त्रास्वादसुखोदधेः पावें विन्दुरिति-तत कामसुखं, आत्मस्वरूपपरिचायकशास्त्रार्थपरिणमनजन्यप्रशमसुखसागरस्य समीपे बिन्दुरूपं वैषयिक सुखं क्य, सागररूपमाध्यात्मिकं सुखं
॥८
॥
Jan Education Internal
For Private & Personal use only