________________
अध्यात्म
सारः
टीका:-प्रक्रिया कामपि ब्रुवे अद्भतां संक्षिप्तां वाऽध्यात्मसारख्या प्रक्रिया-प्रकरणं ब्रवे-वक्ष्यामीत्यर्थः, कीदृशीं प्रकियां ब्रुवे ? इति चेदाह 'शास्त्रात सम्यक् परिचिता' मिति, 'शास्त्रादिति, 'शासनात् त्राणशक्तेश्च बुधैः शास्त्र निरुज्यते वचनं वीतरागस्य तत्तु नान्यस्य कस्यचिदित्यादिनिरुक्तलक्षणविशिष्टशास्त्रात 'सम्यगि' ति सम्पूर्णतया परिचयविषयीकृतामित्यर्थः, पु० की. प्रक्रियां ब्रुवे ? इति चेदाह 'धीमतां सम्प्रदायाच्चेति गीतार्थानामनुयोगधराणामाम्नायाच्च 'स्यात् पारंपर्यमाम्नायः सम्प्रदायो गुरुक्रमः' इत्यभिधानकोशोक्तः, परिचितामित्यर्थः, पु० की. प्र. ब्रुवे ? इति चेदाह, 'इहानुभवयोगाच्चेति, इह-जैनशासने, अध्यात्मविषये वा स्वात्मनिष्ठतात्पर्यजन्यबोधस्वारस्यरूपाऽनुभवयोगान् परिचितामित्यर्थः ॥७॥
योगिनीतिप्रदं पद्यमध्यात्माऽमृतमयं भवति-- योगिनां प्रीतये पद्यमध्यात्मरसपेशलम् ।
भोगिनां भामिनीगीतं, सङ्गीतकमयं यथा ॥८॥ टीका:-'यथा भोगिनामिति' भोगोपभोगशालिना [उपभुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगोभवनवसनवनितादिः, परिभुज्यते-सकृदासेव्यते इति परिभोगः-आहारकुसुमविलेपनादिः, व्यत्ययोवा व्या
॥७॥
Jain Education Internati
Far Private & Personal use only
www.jainelibrary.org