________________
अध्यात्मसार:
विबुधाः आचार्यादयो गीतार्थाः, उपजीवन्ति-जीवन्तीं कुर्वते, अर्थात् स्वकीयजीवने वीरवाणीमुत्तार्य-आराध्य, जीवजीवनेन जीवन्ति, जीवन्मुक्ता इव भवन्ति, परेभ्योऽपि ददतीत्यपि समीचीनोऽर्थो यतो वीरवाणीसुधां स्वयं पिबन्ति, परानपि देशनादिसाधनद्वारा पाययन्तीति उपजीवनसारांशः॥५॥
मङ्गलाचरणपूर्वकमध्यात्मसारस्य प्रकटनम्एतानन्यानपि जिनान्नमस्कृत्य गुरूनपि । अध्यात्मसारमधुना प्रकटीकर्तु मुत्सहे ॥६॥
टीकाः ‘एतानि ति नामग्राहं गृहीतान् पञ्च तीर्थङ्करान् , 'अन्यानपि जिनानि' ति, गुणवत्तया समानानन्यानजितादीन जिनान् , 'गुरूनपी'ति गुरुगुणसम्पन्नान् गौतमादीन् सर्वान् गुरून् 'नमस्कृत्येति मावमङ्गलत्वेन नमस्कार्यतया समानान् सर्वजिनान् सर्वगुरूंश्च हृदि निधाय, 'अधुने' त्यनन्तरं, अन्वर्थनामकं 'अध्यात्मसारं [अध्यात्ममेव सारं-श्रेष्ठं निष्कर्षो वा यत्र तच्छास्त्र] 'प्रकटीकतु मुत्सहे' प्रादुष्कत्तुं महोपाध्यायन्यायाचार्ययशोविजयाभिधानोऽहमपूर्ववीर्योचासवानस्मीत्यर्थः ॥६॥
त्रिभिःकारणैः परिचितापूर्वप्रक्रियाया:प्रादुष्करणम् शास्त्रात् परिचितां सम्यक्सम्प्रदायाच्च धीमताम् । इहानुभवयोगाच्च प्रक्रियां कामपि ब्रुवे ॥७॥
For Private & Personal use only
Jain Education Internal
www.ainer breytt