________________
अध्यात्मसार:
॥५॥
कीदृशः ? बहुरूपभागिति अत एव बहूनि रूपाणि-शरीराणि भजते इति बहुरूपभाक् , नानाकायविशिष्टइत्यर्थः, तथा च फणिमणिधरफणप्रान्तेषु श्रीपाश्वनाथशरीरस्य प्रतिबिम्बनाव कविरुत्प्रेक्षते, जाने श्रीपार्श्वः करुणावरुणालय एकदा-युगपद् विश्वानि-जगन्ति, उद्धत्तु मुपकत्तु मिव बहुरूपभागिति । यथा समवसरणस्थश्चतुर्मुखतां दधज्जिनो भगवान् युगपच्चतुर्दिकस्थसंसारिजीवोद्धारकरणचतुरो भवति तथाऽत्रापि यत एकेन रूपेणेकं जगदुद्धारविषयकं तथा बहुभीरूपैविश्वानि, उद्धारविषयकाणि कथं न भवेयुरिति ?॥४॥
__श्री महावीरप्रभुस्तुतिः जगदानन्दनः स्वामी, जयति ज्ञातनन्दनः। उपजीवन्ति यद्राव-मद्यापि विबुधाः सुधाम् ॥५॥ ___टीका-स्वामी ज्ञातनन्दनो जयतीति सण्टङ्गः, अर्थाद् वर्धमानो भगवान् सर्वोत्कर्षेण वर्त्तते, सकीदृशो ज्ञातनन्दनः १ जगदानन्दनः जगद्-विश्वमानन्दयतीति, द्रव्यभावदानेन वाञ्छितदानेन चोन्नति नयतीत्यर्थः, विना तीर्थङ्करं नान्यःकश्चित् सत्यार्थतया त्रिभुवनं प्रीणयितु प्रभवति, तत्र हेतुमाहअद्यापि-महावीरशासनसाम्राज्यविशिष्टवर्तमानकालेऽपि कलिकालेऽपि, विबुधाः-देवा इव विविक्तप्रतिभाप्रपन्नाः, पुरुषपुङ्गवाः, सुधामिव पीयूषवत् , शान्तरसाऽऽस्वादमयीं, यद्वाचं यस्य-ज्ञातनन्दनस्य वाचं-वर्धमानवदनाऽरविन्दतो निःसृतामर्थरूपां तदीयगणधरेन्द्रेण रचितां सूत्ररूपां-जिनागमाऽभिधां,
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org