SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४ ॥ ... श्रीनेमिप्रभुस्तुतिः। श्रीशैवेयं जिनं स्तौमि, भुवनं यशसेव यः । मारुतेन मुखोत्थेन, पाञ्चजन्यमपूपुरत् ॥३॥ टीकाः-श्रीशैवेयं जिनं स्तौमि-श्रीसमन्वितं शिवानन्दनं नेमिनाथमहन्तं स्तुतिविषयीकरोमीत्यर्थः, या नेमिनाथः कौमार्येऽपि मित्रमण्डलप्रेरितो लीलाकौतुकरहितोऽपि कृष्णवासुदेवायुधशालायां वासुदेवीयं पाञ्चजन्यनामकं शङ्खराज वदननिःसृतेन वायुना यथाऽपूपुरत पूरितवान् , तथा बाल्यतो ब्रह्मव्रतसाधुवृत्तितीर्थङ्करनामकर्मसम्पादितविश्वोपकारजन्यचन्द्रोज्ज्वलेन सर्वदिग्गामुकेन यशसा भुवनं जगत् , भरितवान् , तथाच तीर्थङ्कराणां भगवतां विश्वविश्वोपकारकाणां यशो वैमानिकज्योतिष्कव्यन्तरभवनपतिसत्कदेवदेवीभिः पञ्चकल्याणकादिदिनेषु समहोत्सवं गीयतेऽतो भगवन्तो भुवनत्रयव्यापकमहायशसो भवन्तीत्यर्थः ॥३॥ श्रीपाश्र्वप्रभुस्तुतिः जीयात् फणिफणप्रान्त-संक्रान्ततनुरेकदा। उद्धर्तुमिव विश्वानि, श्रीपाश्र्वो बहुरूपभाक् ॥ टीकाः-श्रीपाश्चों जीयादिति-त्रयोविंशतितमस्तीर्थकरः पार्श्वनाथस्वामी जयवान् भूयादित्यर्थः, श कीदृशः श्रीपाश्वः ? फणिफणप्रान्तसङ्क्रान्ततनुः-फणिनां फणमणिप्रान्तेषु प्रतिबिम्बितकायः, स पुनः ॥४॥ Jain Education Internate For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy