________________
अध्यात्मसार:
॥३॥
|| श्री शान्तिप्रभुस्तुतिः ॥ श्रीशान्तिस्तान्तिभिद् भूयाद्, भविनां मृगलाञ्छमः ।
गावः कुवलयोल्लासं, कुर्वते यस्य निर्मलाः ॥२॥ टीका:-श्रीशान्तिर्भविना तान्तिभिद् भूयात्-श्री शान्तिनाथो भव्यजीवानां भवसन्तानाज्ञानान्धकारभेदकारको भूयादिति सण्टङ्कः, कीदृशः श्रीशान्तिः ? मृगलाञ्छनः स्वोरुगतमृगस्य लाञ्छनेन विशिष्टः, अतः षोडशस्तीर्थकृदेवेति व्यज्यते यतोऽन्येषां तीर्थकृतां मृगलाञ्छनत्वं नास्त्येवेति, लोके तु मृगलाञ्छनपदेन साक्षाचन्द्र इति गृह्यते यतो यस्याऽपि गावः-रश्मयः, कुदलयस्य कुमुदस्य कमलस्योल्लासंविकासं कुर्वते, तथाऽत्रापि मृगलाञ्छनपदेन जैनशासने शान्तिनाथः प्रभुरेव विवक्षितोऽतो यस्य-शान्तिनाथस्य निर्मला गावः [जन्म-शासन-समवसरणाद्यपेक्षया प्रकाशरूपा रश्मयः, गोपदोपलक्षितचतुष्पद द्विपदादि जीवविशेषाः, प्रवचनवाचः] कुवलयस्य-पृथिवीमण्डलस्य 'तास्थ्यात्तदिति न्यायेन पृथ्वीवर्तिजनगणस्य, उल्लासं कुर्वते प्रकाशं, जामृति, स्वात्मविकासमानन्दं च जनयन्ति तथा च गर्भापेक्षया शान्तिकरत्वेन च चक्रवर्तित्वेन तीर्थकृत्त्व प्रसिद्धो भगवान् षोडशस्तीर्थकदहन मृगलाञ्छनः सन् प्रकाश पृथ्वीरक्षणप्रवचनवचननामकगोरूपेण जगन्मण्डलमानन्दयन् जगतोऽभ्युदयनिःश्रेयसरूपं विकासं कृतवानिति ॥२॥
॥३॥
Jain Education Internate
For Private & Personal use only
www.jainelibrary.org