________________
अध्यात्म
सार:
॥ २ ॥
Jain Education Internation
॥ श्री नाभिनन्दनप्रभुस्तुतिः ॥
ऐन्द्रश्रेणिनतः श्रीमान्नन्दतान्नाभिनन्दनः । उद्धार युगादौ यो, जगदज्ञानपङ्कतः ॥ १ ॥ टीका:- नाभिनन्दनो नन्दतात् ऋषभस्वामी समृद्धिमान् भवतु जयतु इति यावत्,
स कीदृशः १ ऐन्द्रश्रेणिनतः इन्द्रस्येयं श्रेणि: - ऐन्द्रश्रेणिः, तया नतः = भक्तिप्रह्नचतुष्षष्टिसुरेन्द्र मनविषयीकृतः पूजितपूज्योऽतः सुतरां जगत्पूज्यो देवाधिदेव इत्यर्थः, अनेन विशेषणेन भगवतः पूजाविशयः प्रकटितः । स पुनः कीदृश: ? श्रीमानितिः श्रीः प्रातिहार्यादिरूपतीर्थकृल्लक्ष्मीर्वाऽष्टो तरसहस्रलक्षणप्रभृत्यतिशयादिरूपशोभा, अस्ति अस्मिन् भगवतीति श्रीमान्, अर्थाद् बाह्याभ्यन्तररूपाहार्यानाहार्यसमस्वश्रीसम्पन्नो वर्त्ततेऽत एव विश्वोपकारायालं भवति, अश्रीकः कस्यचिदुपरि नोपकारी भवति, अनेन ज्ञानातिशयवचनातिशयौ प्रदर्शितौ, यो - नाभिनन्दनः, ऐन्द्रश्रेणिनतः श्रीमान्, युगादौ - यौगलिक धर्म समाप्त्यनन्तरं, चतुर्थारकरूषसत्ययुगस्यादौ पूर्वे तृतीयारकान्तरूपे युगादौ उद्दघार जगदज्ञानपङ्कतः = विश्वविश्व, आर्यनीतिमार्ग मोक्षमार्गादि विषयकाज्ञानख्पकद्दमतः, नीतिधर्ममार्गादिविषयकज्ञानप्रकाशनद्वारा उद्घृतवानर्थादनन्तकरुणारसाकरो भगवानादिनाथो विश्वस्योपरि परमपथप्रदर्शनेन बोधिबोधादिदानेन परममनन्तमुपकारं कृतवानिति [ प्रथमं तावत् पृथिवीनाथाऽपेक्षया भरतादीनां द्विसप्ततिकलाः, ब्राह्म्यादीनां चतुषष्टिकलास्तथा शिल्पशतान्यपि शिक्षितवानिति ] ॥ १॥
For Private & Personal Use Only
॥ २ ॥
www.jainelibrary.org