________________
अध्यात्म
सारः
॥ १ ॥
Jain Education Internal
|| श्री शंखेश्वरपार्श्वनाथाय नमः ॥
ऍ नमः
॥ सूरि श्रात्मकमललब्धिभुवनतिलकगुरुभ्यो नमः ॥ न्यायाचार्य महामहोपाध्यायश्रीमद्यशोविजयजी - विरचितः
* अध्यात्मसार:
विजय भद्रं करसूरिकृत भुवनतिलकाऽऽख्यया संस्कृतटीकया समलंकृतःअध्यात्ममाहात्म्यनामकः प्रथमोऽधिकारः
* मङ्गलाचरणम् *
स्मृत्वा शान्ति जगन्नाथं, शान्तिदं छणिमण्डनम् । नत्वा च वर्धमानेशं, जिनेशं शासनेश्वरम् ॥ १॥ गौतमादीन् गणेशांश्च, प्रणम्य सूरिपुङ्गवान् । हेमहरिप्रमुख्यांश्व प्रसिद्धाऽध्यात्मयोगिनः ॥२॥ न्यायाचार्यादिना सिद्धान्, यशोवाचकशेखरान् । श्रुतकेवलिसाम्यादथान्, स्मृत्वा वादिजयाऽश्चितान् ॥३॥ श्री लब्धिसूरिपट्टेशान्, भुवनतिलकाभिधान् । सूरीन् स्मृत्वा सदाऽध्यात्म-सारग्रन्थस्य भक्तितः ||१४|| भुवनतिलकाऽऽख्याऽऽढ्या, स्मारिका गुरुनामतः । मया प्रतन्यते टीका, भद्रंकरेण सूरिणा ||५||
For Private & Personal Use Only
॥ १ ॥
www.jainelibrary.org