________________
अध्यात्म सार:
॥४११॥
-कर्मकृतविकृतिमात्मन्यारोप्य ज्ञानभ्रष्टा भ्रमन्ति संसारे'यारोप्य केवलं कर्मकृतां विकृतिमात्मनि ।
भ्रमन्ति भ्रष्टविज्ञाना भीमे संसारसागरे ॥१६॥ टी. आयुरादिकर्मकृतां जन्मादिविकृति विकारविरहित आत्मनि केवलमारोप्य-विकल्प्य, विशिष्टज्ञानाद्भ्रष्टाः, विकागभाववत्यात्मनि विकारविकल्पकल्पनाऽप्यन्याय्या, अतो भीमे-भयङ्करे चतुर्गतिरूपे वा जन्मादिरूपे वा संसारमागरे भ्रमन्ति भ्रमात्मज्ञानजकम महापगधि प्राणिनः ॥१६॥
-अज्ञः कर्मकृतभेषमान्मन्येवाऽभिमन्यते'उपाधिभेदजं भेदं वेत्त्यज्ञः स्फटिक यथा ।
तथा कमकृतं भेद-मात्मन्येवाऽभिमन्यते ॥१७॥ टी. कोप्यज्ञो जनो रक्तपीताऽऽदिवर्णवतां पाटलचम्पकादिपुष्पाणां बहुनिकटत्वसम्बन्धवशाद् धवले म्फटिके रक्तत्वपीतत्वादिवर्ण विकल्पयति, एवमत्रापि स्वभावतो निर्मलताजनितश्वेतवर्ण एव परन्तु पुष्पोपाधिविशेषतो दृश्यमानरक्ततादिवर्ण कल्पते, एवंरीत्या कर्मणा कृतं भेदमज्ञो जन आत्मन्येव कल्पयितु-मोह मूढः कत्तु त्वरते, तथापि कर्माणि, भिन्नानि सन्ति, ततः किमात्मा भिन्नः स्यात् । तत आत्मैक
॥४१॥
१॥
Jain Education International
-For Private & Personal use only
www.jainelibrary.org