SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४०५॥ Jain Education Internation • भेदनयतश्चाभेदनयत आत्मज्ञानं हितावहम्- 'तदेकत्व पृथकत्वाभ्यामात्मज्ञानं हितावहम् 1 वृथैवाऽभिनिविष्टाना-मन्यथा-धी विडम्बना ॥ ५ ॥ टी. तत् तस्मात्कारणात् एकत्वपृथक्त्वाभ्याम् = मेदाभेदाभ्यां भेदप्रधाननयतोऽभेदप्रधानयतश्वा'त्मज्ञानं' = आत्मस्वरूपाऽवच्छिनाऽऽत्मज्ञानं 'हितावहं ' = हितप्रदं कल्याणकार्येव ज्ञेयम्, अन्यथा = भेदाऽभेद नयपूर्वकमात्मज्ञानं न स्यात्तदा 'वृथैवाऽभिनिविष्टाना' मुधैवैकान्तवादक दाग्रहगृहीता घी' र्ज्ञानं, विडम्बना- कष्टरूपैवेति अत्रेदम्बोध्य मेषोऽखिलोऽधिकारः प्रायो निश्चयनयदृष्टयाऽऽत्मस्वरूपनिश्चयविषयकोऽस्ति, व्यवहारनयस्त्वात्मानं स्वज्ञानादिगुणेभ्यश्च नारकादिपर्यायेभ्यो भिन्नं मन्यते एतावन्मात्रमपि न परन्तु सर्वाऽत्मसु प्रत्येकं परस्परं भेदमपि मन्यते, व्यवहारनयतो भिन्नं कथयति, निश्चयस्तथाहि - (१) आत्मा, ज्ञानादिपर्यायेभ्यो भिन्नो नास्ति, गुणगुणिनोरभेदाद्, ज्ञानाऽऽत्मनोरैक्यम् (२) एक आत्माऽस्त, अन्याssत्मभ्यो भिन्नो नास्ति यतः स्वरूपं चैतन्यपरसामान्यमेकमस्ति ० व्यवहारनयमतम् निश्चयनयमतम् (१) आत्मा, ज्ञानादिभ्यो भिन्नोऽस्ति (२) आत्मा, अन्याssस्मभ्यो भिन्नोऽस्ति [१] आत्मा, ज्ञानादिभ्योऽभिन्नोऽस्ति, [२] आत्मा, अन्यात्मभ्योऽभिभोऽस्ति For Private & Personal Use Only ॥४०५॥। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy