SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४०४ ॥ Jain Education Internation एकात्मतत्वज्ञप्तये जीवस्य मेदवन्तो— यत्र जीवत्वं नास्ति तानि सर्वाण्यजीवादिरूपाणि तत्त्वानि बोद्धव्यानि, जीवोऽजीवादिरूपेतरेभ्यो भिद्यते, ज्ञानादिचैतन्यवत्त्वादिति समासत आत्मानं सर्वात्मना ज्ञातुमजीवादित - विषयकं ज्ञानमावश्यकमजीवादीनज्ञात्वा जीवस्य पूर्ण स्वरूपमज्ञेयं स्यादेव, 'घटो न पट इति वज्जीवो नाजीवादिरित्यजीवादिभ्य इतरेभ्यो भिद्यते, अजीवादिभेदवान् जीवोऽस्ति, जीवेऽजीवादे भेदोऽस्ति, तस्माद् भेदस्य प्रतियोगिनः (यस्याभाव: स प्रतियोगी) अजीवादयोऽभवन, स्वपदेनाऽजीवादयो ग्राह्याः, तेषां भेदस्य (जीवो नाजीवादय इति भेदस्य ) प्रतियोगिनोऽजीवादयो जाताः, अर्थात्, स्वभेदप्रतियोगित्वेन रूपेणाऽजीवादयो भावा वर्त्तन्तेऽतोऽजीवादि मेदज्ञानपूर्व कमाऽऽत्मज्ञानं कर्त्तव्यमतो नवानामपि तच्चानां ज्ञानमात्मप्रसिद्धये इति वाक्यं व्यवस्थितं सञ्जातमेवेति ॥ ३॥ आत्मपर भेदं तु कश्चन विरलो वेति - 'श्रुतो ह्यात्मपराऽभेदोऽनुभृतः संस्तुतोऽपि वा 1 निसर्गादुपदेशादा, वेत्ति भेदं तु कश्चन 11811 टी० हीति कल, आत्मनश्च परस्य - देहादिपदार्थस्य अभेदः = आत्मपराऽभेदः, भूतकालाऽवच्छेदेन श्रुतः श्रवणविषयीकृतः, अनुभूतः = अनुभवविषयीकृतः, संस्तुतो वा चिरपरिचितो वा, परन्तु 'आत्मपर - विपयकभेदं' = आत्मनो देहादिः परो भिन्नोऽस्ति देहादिरूपपरत आत्मा, भिन्नोऽस्तीति भेदं, 'निसर्गादुपदे शाद्वा' = स्वभावतोऽथवा गुर्वादिजनोपदेशात्, 'कथन' = कोऽपि विरल आत्मा 'वेत्ति ' = जानाति नान्य इति ॥४॥ For Private & Personal Use Only ||४०४ ।। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy