SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥ ३८७ || Jain Education Internation त्रियोगयोगिनः साधो -वितर्काद्यन्वितं ह्यदः ईषच्चल तरङ्गाऽब्धेः क्षोभाभावदशानिभम् ॥७६॥ टी० शुक्लध्यानस्य चत्वारः पादा ध्यातव्यास्तेषां चतुष्णां पादानां नामानि यथा ( १ ) सवितर्क विचारं पृथक्त्वम्, (२) सवितर्क सविचारमेकत्वम् (३) सूक्ष्मक्रियाऽनिवृत्ति, (४) ममुच्छिन्नक्रियमप्रतिपाति तत्र सवितर्कसविचार- सपृथकत्वरूपप्रथमपादस्य वर्णनम् = तत्र वितर्कः = अनेकनयाऽऽश्रितं पूर्वानुमारितं वितर्क उच्यते, विचार:- 'अर्थव्यञ्जनयोगानामन्योऽन्यसङ्क्रमः' = अर्थतः शब्दे, शब्दतो द्रव्ये, मनोयोगतो वचनयोगे वा काययोगेऽथवा वचनयोगतो मन आदियोगे, एवं मिथो जायमानः सङ्क्रमो विचार उच्यते, पृथक्त्वमद्रव्यपर्यायगुणान्तरगतिः, पृथक्त्वमर्थाद् द्रव्यतो द्रव्यान्तरे गमनं, पर्यायतोऽथ पर्यायान्तरे गमनम् गुणतो गुणान्तरे गमनम् पृथक्त्वमुच्यते, शुक्लध्यानस्य प्रथमे पादे वितर्कविचारपृथक्त्वरूपास्त्रयो विषया गोचरीक्रियन्तेऽतस्तद्ध्यानं सवितकं सविचारं सपृथक्त्वमुच्यते, मनोवचः काययोगरूपयोगत्रयव्यापारवतो मुने वितर्कविचारपृथकृत्वाऽन्वितं हि ध्यानमिदं ( मनइदमेकाग्रतायुतं ) 'ईषच्चलत्तरङ्गान्धेः क्षोभाऽभावदशानिभम्' = किश्चित् किश्चिच्चल तरङ्गवतोऽपां पतेर्या क्षोभशून्या दशा, तत्समानं ध्यानं वा मनो भवतीति ॥ ७४ ॥ ७६ ॥ ७६ ॥ - शुक्लध्यानस्य द्वितीयपादरूपस्य सवितर्कस विचारकत्वस्य वर्णनम् - For Private & Personal Use Only I ॥३८७॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy