________________
अध्यात्म
सार:
॥३८६॥
टी. श्रीमान ग्रन्थकार: शुक्लध्याननामके विषये पूर्वोक्तद्वादशद्वाराणि निरूपयति तत्र द्वादशद्वारेषु पूर्वाणि चत्वारि द्वाराणि धर्मध्यानतुल्यान्येव तस्मात्त न्यकथयन पञ्चमाद्यालम्बनादिद्वाराण्यवतारयति (५) पश्चममालम्बनद्वारम् जिनेन्द्राणां मते प्रधानभृतान क्षमा-मार्दवावनिर्लोभतादिगुणानालम्म्य छद्मस्थो ध्याता शुक्लध्यानशिखरमागेहति, (६) षष्ठ क्रमाऽऽख्यं द्वाग्म-छद्मस्थस्याऽऽत्मन पूर्व मनस्तु त्रीणि भुवनानि विषयीकृत्याऽपि ततः क्रमतस्तन्मनमो विषयान संक्षिपन् २ आत्मा, परमाणो मन आनीय मुश्चति. एवं रीत्या शुक्ल ध्यानं ध्यायति, यदा जिनो-केवली मनोयोगं निरुद्धय शुक्लं ध्यानं ध्यायेत , ब्रह्मस्थम्य शुक्लध्यानं मप्तमादिगुणस्थानवर्तिनो भवेत , यदा जिनस्य शुक्लध्यानं त्रयोदशगुणस्थानस्याऽन्तपर्यन्तम , तथा चतुर्दशगुणस्थाने भवेत् ॥७३॥
- सप्तम ध्यातव्यद्वारं तथाऽष्टमं ध्यातृद्वारम्'सवितर्क सविचारं, सपृथकत्वं तदाऽऽदिमम् । नानानयाऽऽश्रितं तत्र वितर्कः पूर्वगं श्रुतम् ॥७॥ अर्थव्यञ्जनयोगाना, विचारोऽन्योऽन्यसक्रमः । पृथकवं द्रव्यपर्याय-गुणाऽन्तरगतिः पुनः ॥७॥
|३८६॥
Jan Education Intema
For Private & Personal use only
ww.jainelibrary.org