________________
अध्यात्मसार:
॥ ३८४॥
Jain Education Internation
टी० यो धर्मध्यानस्य योग्यो ध्याता कथितः सोऽयमेव शुक्लध्यानस्य चतुर्षु पादेषु मध्ये पादयो द्वयोः पूर्वयोरप्रमत्त आत्मा ध्याताऽधिकारी भवेत्तदा स पूर्वधरो महात्मैव ज्ञेयः, शुक्लध्यानस्य तृतीयपादध्याता योगी केवली भवति, चतुर्थपादभ्याताऽयोगी केवली भवतीति ॥ ६६ ॥
- नवमद्वारभूता धर्मध्यानिनामनुप्रेक्षा:'श्रनित्यत्वाद्यनुप्रेक्षा,
ध्यानस्योपरमेऽपि हि
भावयेन्नित्यमभ्रान्तः प्राणा ध्यानस्य ताः खलु ॥७०॥
टी० 'ध्यानस्योपरमे हि' - अस्माद् ध्यानयोगाभिवृत्तिः स्यात्तदा अभ्रान्तः सदाश्रमाऽनाक्रान्तआत्मा, अनित्यत्वादिरूपा अनुप्रेक्षा भावना भावयेद्यतः 'ध्यानस्य ताः खलु प्राणा: ' = भावना ध्यानस्य प्राण उच्यन्तेः त्रुटितामपि ध्यानधारामनुसन्धातु भावनाः प्रभवन्तीति ॥ ७० ॥ - धर्मध्यानिनां लेश्या दशमद्वारभूताः -
'तोत्रादिभेदभाजः स्युर्लेश्यास्तिस्र इहोत्तराः 1 लिङ्गान्यत्राऽऽगमश्रद्धा विनयः सद्गुण स्तुतिः
॥७१॥
टी० 'तीव्रादिमेदभाजः स्पुर्लेश्यास्तिस्र इहोत्तराः ' = धर्मध्यानिनां मुनीनां परिणामापेक्षया तीव्रतीव्रतर - तीव्रतम प्रकारभिन्ना स्तेजः पद्मशुक्लाऽऽख्यास्तिस्रो लेश्या भवन्ति अत्र धर्मध्यानप्रसङ्गे धर्मध्यानि
For Private & Personal Use Only
| ॥ ३८४ ॥
www.jainelibrary.org