________________
अध्यात्म
सार:
॥ ३८२॥
Jain Education Internation
दोषरूपरागभयक्रोधरहितो मुनिः स्थितप्रज्ञ उच्यते ॥ ६५ ॥
' तत्तत्प्राप्य शुभाशुभम् ' = इष्टाऽनिष्टवस्तुमात्रं प्राप्य यः सर्वत्र शुभाशुभाऽऽत्मके वस्तुन्यनभिस्नेहः- वीतराग उदासीनः समः सन् नाभिनन्दति=न रक्तो भवति, न द्वेष्टि=न द्विष्टो भवत्यतस्तस्य = समतालङ्कृतस्य प्रज्ञा प्रतिष्ठिता = प्रतिष्ठा प्राप्ता, स्थिरता प्राप्ता कथ्यते ॥ ६६ ॥
'कूर्मोऽङ्गानीव सर्वशः' यथा कूर्मोऽङ्गान्युपाङ्गानि सर्वतः संहरते - सङ्कोचयति तथा चायं मुनिः, इन्द्रियविषयेभ्य इन्द्रियाणि संहरते - प्रत्याहरति स मुनिः स्थितप्रज्ञ उच्यते ||६७ ||
'शाङ्करभाष्यमत्र = दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सः अयम् अनुद्विग्नमनाः । सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य न अग्निः इव इन्धनाद्याधाने अनुवते स विगतस्पृहः । वीतरागभयक्रोधो रागः च भयं च क्रोधः वीता विगता यस्मात्स वीतरागभयक्रोधः, स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा उच्यते ( २५६) 'यो मुनिः सर्वत्र देहजीवितादिषु अपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न रुष्यति अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्षविषादवतस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति || २|५७॥
'यदा संहरते सम्यग् उपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव सर्वशो यथा
For Private & Personal Use Only
||३८२ ।
www.jainelibrary.org