________________
अध्यात्मसार:
॥ ३६८ ॥
Jain Education Internation
तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ॥ ३२ ॥
टी० यथा सुरज्ज्वादिरूपद्रव्याऽऽलम्बनवान्, विषमं पदमारोहति तथा सूत्रादिवाचनाऽऽदिरूपपूर्वोक्ताऽऽलम्बनाश्रितः पुरुषो धर्म- शुक्लरूपं सद्ध्यानमारोहतीति ॥३२॥
- आलम्बनादरजन्य विघ्नविध्वंसद्वारा ध्यानाऽऽरोहणाऽखण्डितयाश्रालम्बनादरोद्भूत- प्रत्यूहक्षययोगतः
I
ध्यानाद्यारोहण शो, योगिनां नोपजायते ॥३३॥
टी० पूर्वोक्तसूत्रवाचनादिरूपाऽऽलम्बनानि प्रति भक्तिबहुमानरूपादरेण विशुद्धभावेन 'उद्भूतप्रत्यूहक्षय योगतः ' उत्पन्नविघ्नविध्वंसयोगतः, ध्यानादियोगमारोहतां महात्मनां ततोऽधःपातो नोपजायते इति ॥३३॥
- जिने मनोनिरोधादिको ध्यानप्रतिपत्तिक्रमो न शेषेषु'मनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समाधानं प्रकीर्तितम् ॥३४॥
टीका० मुक्तिगमनकालेऽन्तिमाऽन्तमुहूर्ते सयोगिकेवली भगवान् प्रागू चादरकाययोगेन बादरवचन
For Private & Personal Use Only
॥ ३६८ ॥
www.jainelibrary.org