________________
अध्यात्म सार:
॥३६७॥
बन्धनं न भवितुमर्हति, अत्रैतावानेत्र नियमोऽस्ति यत् प्रत्येकयोगिनां स्वयोगे सुस्थता-ममाधिः, अवश्यमावश्यकी येन व्यक्तिविशेषेण यद्देशाद्याश्रित्य योगे सुस्थता सम्प्राप्यते तस्य व्यक्तिविशेषस्य तद्देशादेनियमोऽस्त्येवेति वाच्यम् ॥३०॥
-धर्मध्यानाय योगयोऽऽलम्बनानि'वाचना चैव पृच्छा च, परावृत्त्यनुचिन्तने ।
क्रिया चाऽऽलम्बनानीह, सद्धर्माऽऽवश्यकानि च ॥३१॥ टी० (१) वाचनारूपाऽऽलम्बनम-सूत्रार्थोभयदानरूपा वाचना (२) पृच्छारूपाऽऽलम्बनम् सति संशये तदपनोदाय प्रच्छनम् (३) परावृत्तिरूपाऽऽलम्बनम्-पठितस्याऽवि स्मरणाय च कर्मनिर्जरणाय पुनः पुनः परावर्तनम् (४) अनुचिन्तनरूपाऽऽलम्बनम्=पूर्वकृतपाठस्याऽविस्मरणाय सूत्रार्थोभयस्मरणानु चिन्तनरूपानुप्रेक्षणम् (५) प्रत्युत्प्रेक्षणादिप्रतिलेखनादिरूपक्रियालम्बनम् प्रतिलेखनादिरूपा क्रिया च सामायिकादिसद्धर्मा-वश्यकानि, इह-धर्मध्याने, आलम्बनानि यानि, वाचनादीनि चत्वार्यालम्बनानि श्रुतधर्माऽन्तर्गतानि, प्रत्युत्प्रेक्षणादिक्रियाऽऽत्मकं सामायिकादिसद्धर्मावश्यकात्मकं च चारित्रधमोऽन्तर्गतमालम्बनम् ॥३१॥
-सूत्राद्यालम्बनाऽऽश्रितः सद्ध्यानमारोहति'आरोहति दृढ-द्रव्या-लम्बनो विषमं पदम् ।
॥३६७॥
Jain Education Internal
For Private & Personal use only
___www.jainelibrary.org