________________
अध्यात्मसारः
॥३६६॥
टी. यस्मिन् काले योगविषयकः समाधिरखण्डो भवति स धर्मध्यानस्येष्टः कालो ज्ञेयः, ध्यानकतुम्तुदिनरात्रिक्षणादीनां न नियमः, अर्थात् कालबन्धनं ध्यानिनां न सम्भवतीती ॥२८॥
-जिता या काप्यवस्था ध्यानोपघातिनी न भवतियैवाऽवस्था जिता जातु, न स्याद्ध्यानोपघातिनी ।
तया ध्यायेन्निषण्णोवा, स्थितो वा शयितोऽथवा ॥२६॥ टी० याऽऽमनमुद्राद्यवस्थानरूपाऽवस्था जिता-स्ववशीकृता यावत् सिद्धा, तदा जातु-कदाचिदपि 'भ्यानोपघातिनीध्यानविक्षेपिणी न स्यात्, तदनन्तरं तयाऽवस्थया, वीरासनादौ निषण्णः कायोन्मगें स्थितो वो स्थितो अथवा दण्डवच्छयितः सुप्तः सन् ध्यायेत् ध्यानमाचरेत् ॥२६।।
-ध्यानाय देशकालाऽवस्थासु नियमो न किन्तु नियता योगसुस्थता
'सर्वासु मुनयो देशकालावस्थासु केवलम् ।
प्राप्तस्तन्नियमो नाऽऽसां, नियता योगसुस्थता ॥३०॥ टी. 'सर्वासु देशकालाऽवस्थासु अर्थात् सर्वस्मिन काले सर्वस्मिन् देशे सर्वस्यां मुद्राऽऽसनाद्यवस्थायां मनयोऽतीताऽनन्तकालावच्छेदेन केवलज्ञानं प्राप्ताः-प्राप्तवन्तोऽतो ध्यानाय देशकालवस्थानां
॥३६६॥
Jan Education international
For Private
Personal Use Only
www.jainelibrary.org