SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ३६३।। Jain Education Internatio श्रसंशयं महाबाहो | मनो दुर्निग्रहं चलम् । श्रभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते ॥ २३ ॥ संयतात्मना योगो दुष्प्राप इति मे मतिः । वश्याऽऽत्मना तु यतता, शक्योऽवाप्तुमुपायतः || २४ || टी० 'चञ्चलं हि मनः कृष्ण इति कृपतेः विलेखनार्थस्य रूपं भक्तजन पापादिदोषकर्पणात कृष्ण ! केवलम् अत्यर्थं चञ्चलं प्रमाथि च प्रमथनशीलं प्रमथ्नाति शरीरम् इन्द्रियाणि च विश्चिपति परवशीकरोति । किञ्च बलवद्न केनचिद् नियन्तु ं शक्यम् । किश्व दृढं तन्तुनागवद् अच्छेद्यम । तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोः इव । यथा वायोः दुष्करो निग्रहः ततः अपि मनसो दुष्करं मन्ये इनि अभिप्रायः ||३ | ३४ ॥ 'असंशयं न अस्ति संशयो मनो दुनिग्रहं चलम् इत्यत्र हे महाबाहो । किन्तु अभ्यासेन तु अभ्यासो नाम fan कचित् समानप्रत्ययाऽऽवृत्तिः चित्तस्य । वैराग्यं नाम दृष्टाऽदृष्टेष्ट भोगेषु दोषदर्शनाऽभ्यासाद्वैतृष्ण्यं तेन च वैराग्येण गृह्यते निगृह्यते निरुध्यते इत्यर्थः ।। ६ । ३५ ।। असंयतात्मना अभ्यामवैराग्याभ्याम् असंयत आत्मा अन्तःकरणं यस्य सः अयम्, असंयताssमना, योगो दुष्प्रापो दुःखेन प्राप्यते इति मे मतिः । यः तु पुनः वश्यात्मा, अभ्यासवेगग्याभ्यां वश्य For Private & Personal Use Only ॥३६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy