________________
अध्यात्मसारः
॥३६॥
ज्ञानदर्शनचारित्रवैराग्याऽऽख्याः प्रकीर्तिताः ॥१६॥ टी. ततः-द्वादशभावनादिवस्तुभिः चित्तस्य शिक्षणाऽनन्तरं धर्मादनपेतं धयं धर्मध्यानं ज्ञात्वा ध्यायेत-ज्ञानानन्तरं तदेव ज्ञानमेव स्थिरं सद् ध्यानं भवतीति सूचितम् , 'तत्र'=धर्मध्याने, 'चतस्रो ज्ञानदर्शनचारित्रवैराग्याख्या भावना प्रकीर्तिता': ज्ञाननामकभावनादर्शननामकभावनाचारित्र-नामक भावनावैराग्यनामकभावना एवं चतुःसङख्या अनुप्रेक्षाः प्रकीर्तिताः ॥१९॥
- पूर्वोक्तानां चतसृणां भावनानां क्रमशः फलानि - 'निश्चलत्वमसंमोहो, निर्जरा पूर्वकर्मणाम् ।
सङगाऽऽशंसाभयोच्छेदः, फलान्यासां यथाक्रमम् ॥२०॥ ___टी० (१) ज्ञानभावनाफलम्-निश्चलत्वम्-सम्यक् श्रुतज्ञानमाराधयन्नात्मा, अशुभयोगतो मनो निरुद्धय, शुभे चित्तम्यावस्थापनकरणरूपां विशिष्ट भावनां स्पृशत्येव, मूत्राओं शोधयति, भवनिर्वेद प्राप्नोन्यती भ्यातुश्चित्तं निश्चलं भवत्येव (२) दर्शनभावनायाः फलमसंमोहः दर्शनभावनाया अभ्यासात शङ्कादिपणहीनः सन, प्रशमस्थैर्यादिगुण विशिष्ट आन्मा, तच्चविषयकभ्रान्तिशून्यो भवति (३) चारित्रभावनायाः फलं पूर्वकालीनकर्मनिर्जरा-एतस्या भावनायाः परिपाकामवानां कर्मणामग्रहणं पुराण
॥३६॥
Jan Education Intemar
For Private & Personal use only
www.jainelibrary.org