________________
अध्यात्म
मारः
||३६०॥
प्रशस्तं तु कृताऽभ्यासो, ध्यानमारोढुमर्हति ॥१७॥ ___टी. आत्तरौद्रनामके द्वे ध्याने अप्रशस्ते चिरपरिचयवशादुरन्ते दु खेनान्तताविशिष्टे-दुष्प्रणाशे म्तः, येन भावनादिभिश्चित्तं भावितं-पुनः पुनः शिक्षितमत एव कृतोऽभ्यासो येन स कृताभ्यासः प्रशम्तं ध्यानं धर्मशुक्लाऽन्यतरद् ध्यानमारोढुमारोहणं कर्तुमर्हति-योग्यो भवतीति ॥१७॥ - प्रशस्तध्यानयोग्यतायै चित्तस्य द्वादशभिर्भावनादिवस्तुभिः शिक्षणम् -
भावना देशकालो च, स्वासनाऽऽलम्बनक्रमान् ।
ध्यातव्यधात्रनुप्रेक्षा. लेश्या लिङ्गफलानि च ॥१८॥ टी० चित्तस्य द्वादश शिक्षाः= (१) ज्ञानादिरूपाश्चतुर्विधा भावनाः, (२) धर्मध्यानोचितो देशः (३) धर्मादिध्यानाद्यचितः कालः (४) धर्मादिध्यानोचितं स्वासनम् (५) धर्मादिच्याने वाचनादेरा लम्बनम् (५) मनोनिरोधादेः क्रमः, (७) आज्ञाविचयादिरूपेण ध्यातव्यम् (८) अप्रमादादिगुणयुतो ध्याता (९) अनुप्रेक्षाया अनित्यत्वादिभावनाया आलोचनम् (१०) शुभलेश्या (११) श्रद्धादिलिङ्गानि (१२) म्वर्गाऽपवादिरूपं फलमित्यादिद्वादश वस्तूनि नाममात्रेण निर्दिष्टानि सन्तीति ॥१८॥
- भावनारूपं चित्तस्य प्राक् शिक्षणम् - ‘ज्ञात्वा धयं ततो ध्यायेच्चतस्रस्तत्र भावनाः ।
॥३६॥
Jan Education Internal
For Private & Personal use only