________________
अध्यात्मसार:
॥३४९॥
घनस्याऽथवा परमात्मतस्वरूपस्यैकस्य साध्यस्यार्थी जीवः (४) ज्ञानी-कर्मभक्तियोगाभ्यां परमात्मानमेव परमसत्यत्वेन स्वीकृत्य तस्यैवाऽस्तित्वं जगति वर्तते. एतादृशज्ञानसम्पमो ज्ञानी चतुर्विधेविश्वरोपासकेषु प्राथमिकास्त्रयो धन्याः सुकृतिनोऽतो धन्यवादार्हाः, यतस्तेषां त्रयाणामुपासकानां वस्तुलक्ष्यरूपं वस्त परमात्माऽस्ति, अर्थादमुवस्तुविशेषमपेक्ष्य प्राथमिकास्खयो धन्याः सन्ति अत्रेदं नेयं धनादीनामर्थे परमात्म मक्तिं कुर्वतां भक्तिरूपमनुष्ठानं विषाऽनुष्टानं भवति तथाऽप्यत्र स एव धनार्थी भक्तो धन्यत्वेन कथ्यते यद्यपि धन्यतेषा, धनार्थित्वेन नास्ति परन्तु वस्तु-विशेषतोऽस्ति, धनस्यार्थित्वेऽपि जनस्यैतस्य धनाय नाऽन्यत्र कुत्र याचा कुर्वतः परमात्मनि भक्तिरनन्याऽस्ति, अर्थात्तत्रैतेन यल्लक्ष्यं गृहीतमासीत्तदेवतस्य धन्यताया निमितं वर्तते नो धनार्थिता, यस्य परमात्मतो धनस्योपरि राग आत्यन्तिको वर्तते स धनाय यदि परमात्मभक्तिं कुर्यात्तदा मा भक्तिविषानुष्ठानरूपा कथ्येत नाऽन्यथेति ॥७७॥
- चतुर्थस्थानीयज्ञानिरूपोपासकस्य वर्णनम् - 'ज्ञानी तु शान्तविक्षेपो, नित्यभक्ति विशिष्यते ।
अत्यासन्नो ह्यमो भर्तु-रन्तरात्मा सदाशयः ॥७८|| टी. चतुर्थस्थानीयेश्वरोपासको ज्ञानीतु कीदृशोऽयं ज्ञानी ? इति चेदुच्यते 'शान्तविक्षेपः रागादिरूपचिक्षेपाणामुपशान्तिविशिष्टः, पुनः की. सः ! 'नित्यभक्तिः' निरन्तरभक्तियोगविशिष्टः, विशेषणद्वयविशिष्टो
१
Al॥३४॥
Jan Education interes
For Private & Personal use only
www.jainelibrary.org