SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३४४॥ पदार्थः, म एक एव, मुक्तादिनामभेदेनापि न भिन्नः, अनया रीत्याऽनेकसंज्ञया किमेकमीश्वरतस्वमनेकस्वरूपं भवेन ? अर्थादेक एवेश्वरः ।।६।। -ईश्वरस्य स्वरूपभेदस्य वैययम् - 'अनादिशुद्ध इत्यादि योभेदो यस्य कल्प्यते । तत्तत्तन्त्रानुमारेण, मन्ये सोऽपि निरर्थकः ॥७॥ विशेषस्याऽपरिज्ञानाद् युक्तीनां जातिवादतः । पायो विरोधतश्चैव, फलाभेदाच्च भावतः ॥७॥ टीका: तस्यैकस्य ब्रह्मस्वरूपेश्वरस्य भेदं कुर्वन् , शैवमतानुयायी, तं 'अनादिशुद्धः' इति कथयति, बौद्रस्त 'प्रतिक्षणं विनाशी' इति वदति, कश्चित्तं 'सर्वगतः' इति वक्ति, कश्चित्तं 'विशिष्टस्थानस्थः' इति अते. एपा सर्वा तत्तदर्शनाऽनुसारेणेश्वरीया स्वरूपभेदानां या कल्पनाऽस्ति साऽपि व्यर्थेति मन्येऽह मिति तथा कथने कारणमेतदस्ति यत् (१) सर्वेषां दार्शनिकानामीश्वरस्वरूपादिविषयकं यज्ञानमस्ति तत्त सामान्यमेवेश्वरीयं विशिष्टस्त्ररूपज्ञानन्तु न भवति (२) स्वाऽभिमतेश्वरपुष्टये दीयमाना अनुमानादियुक्तयोऽसियादिहेतुना युक्त्याभासरूपा (जातिवादा असन्युक्तिरूपाः) भवन्ति (३) वेदान्तादिदर्शनेषु ४२ Jain Education Internatif For Private & Personal use only swww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy