________________
अध्यात्ममारः
॥३४॥
'विशेषमप्यजानानो यः कुग्रहविवर्जितः ।
सर्वज्ञ सेवते सोऽपि, सामान्ययोगमाश्रितः ॥ ६३ ॥ टीका:-व्यक्तिरूपममुकं सर्वज्ञमजानानोऽपि यः कदाग्रहग्रहविरहतः कश्चिदप्यात्मा, कश्चिदपि सर्वज्ञं देवं निरञ्जननिराकारसर्वज्ञत्वेन ज्ञात्वा सेवमानो भवेत् , निरञ्जनत्वादिगुणान् वेत्ति गुणिनं विशिष्टव्यक्तिं न वेत्ति, तथापि सामान्यतो गुणाधारो भाव्य एव यतो गुणानामाधारः सर्वज्ञत्वेन धायः इतिसोऽपि सामान्यतः सर्वज्ञं मन्यमानोऽपि सामान्ययोगवान योगी महात्मा कथ्यते इति ॥३३॥
-सवज्ञो मुख्य एक एव
'सर्वज्ञो मुख्य एकस्तत् , प्रतिपत्तिश्च यावताम् ।
सर्वेऽपि ते तमापन्ना, मुख्यं सामान्यतो बुधाः ॥ ६४ ॥ टीकाः-वस्तुतो मुख्यः मनस्त्वेक एवाऽम्ति, बहवः सर्वज्ञा न सन्ति, अर्थात् सामान्यतस्तु तत्तद्दर्शनानां ये भावुकात्मानो बुधाःसर्वचं प्रतिपद्यन्ते सेवन्त, ते सर्वे वस्तुतस्तु मुख्यमेकं सर्वज्ञमेव स्वीकुर्वन्ति, नन्पश्चान कश्चिन्महादेवनाम्ना वा महावीग्देवनाम्ना तं मर्वज्ञत्वेन म्बीकुर्यात् तद्वरं, यदा मुख्यः सर्वज्ञ एकोऽस्ति तदा तस्य नामभेदोऽस्तु तथाऽपि ततः सर्वज्ञस्य नानात्वं न भवति, अनेकनामभिरपि सर्वनं. मन्यमाना वस्तुतस्तु मुख्यं सर्वनमेकमेव प्रतिपद्यन्ते यतो मुख्या-सर्वज्ञस्त्वेक एवेति ॥६॥ ।
३४०॥
Jain Education Internativ
For Private
Personal use only
Tww.jainelibrary.org