________________
अध्यात्म-10
मारः
परं चक्षुरपरं च निमीलयन्' चर्मचक्षुषी निमीलयन् , आन्तरचक्षुषी विकासिते उद्घाटिते कुर्वन् भवति, 'अन्तगतान भावान् पश्यन् पूर्णभावमुपागतः' = आत्मप्रदेशेषु विस्तारितान् विशद्धान् भावान् निरीक्षमाणोऽयं ज्ञानयोगी पूर्णत्वप्राप्तिमान् भवति 'अध्यात्मसाम्राज्यं भुञ्जानोऽवशिष्टं न पश्यति' आध्यात्मिक चक्रवर्तित्वसत्तां भुञ्जानः सन् ततोऽवशिष्टं-शेपीभृतं न पश्यति, पूर्णता प्राप्तोऽपूर्ण किमपि शेष नास्तीति पश्यनि-पूर्ण दृष्टिं धारयति, सर्व प्राप्तव्यं मया प्राप्तमेव निश्चिनोतीति । ५४||५५।।
-आचारांगसूत्रे ज्ञानयोगस्य महात्म्यम्
'श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव यज्जगौ । बन्धप्रमोक्षं भगवान् लोकसारे सुनिश्चितम् ॥५६॥ उपयोगेकसारत्वादाश्वसंमोहबोधतः ।।
मोक्षाऽऽप्ते युज्यते चैतत्तथा चोक्तं परैरपि ॥५७ ॥ टीका:-अध्यात्ममार्गे त्वेष ज्ञानयंग एव श्रेष्ठः परमोमतः, यतः परमात्मना महावीरदेवेनाऽऽचारांगसूत्र लोकसारनामके पश्चमेऽध्ययने, ज्ञानं योगात्मकमिदं 'वन्धप्रमोक्षं-कर्मवन्धनतोऽवश्यं मोचकमितिकथितं, तत्र परमात्मना महावीरदेवेन कथितमस्ति यत् 'उपयोगकसारत्वात'एष ज्ञानयोगः केवलमान्त
Jain Education Internal
For Private & Personal use only
ww.jainelibrary.org