________________
अध्यात्म-1
सारः
॥३३४॥
लोकसंज्ञाविनिर्मुक्तो. मिथ्याचारप्रपञ्चहृत् ।
उल्लसत्कराडकस्थानः, परेण परमाश्रितः ॥ ११ ॥ टीका: एष ज्ञानयोगी तु लोकस्य गताऽनुगतिकतायाः सर्वथा विनिर्गतः, तत एव लोकानां 'मिथ्याचारप्रपञ्चहत्'अपत्यभूतस्याचारस्य प्रपञ्चं हरन् 'उल्लसत्कण्डकस्थानः' संयमधर्मस्याऽस
ख्याताध्यवसायस्थानानां निःश्रेणीसोपानेषु द्रतं द्रतमुत्प्लुत्योत्तरोत्तरं वर्धमानतया गच्छन्नेवास्ति, उत्कटशुभमनोयोगेनाऽत्यन्तोज्ज्वलाऽऽत्मभावं प्राप्तवान् ज्ञानयोगी वर्तते ॥५१॥
"श्रद्धावानाज्ञया युक्तः, शस्त्राऽतीतो यशस्त्रवान् ।
गतोऽदृष्टेषु निर्वेद-मनिहनुतपराक्रमः ॥५२॥ टीका:-एव ज्ञानयोगी, जिनेन्द्रप्रवचनवचनस्योपरि निश्चलानन्यश्रद्धासमृद्धः स्यात् , जिनाज्ञापालनेऽपि प्रकामोलसितयोगसम्पत्संपन्नः स्यात्. 'शस्त्रातीतः' अशुभाऽध्यवसायरूपाऽऽत्मघातितीक्ष्णशस्त्रेभ्योऽतीतः स्यात्, अत एव दुर्गतिप्रापकबाह्याधिकरणरूपशस्त्रा-भाववान् स्यात् , 'गतोऽदृष्टेषु निर्वेदम्' अदृष्टस्वर्गा दीच्छाशून्योऽत एव सम्मुखोपनतधनादिरूपदृष्टेषु पदार्थेष्वपि महानिदै गत उदासीनःस्यात् 'अनिनुतपरा- क्रमः'निहनवमकृत्वा पश्चाऽऽचारपालने-द्भुतपराक्रमस्फूर्तिसम्पनो भवेदिति ॥५२॥
॥३३॥
Jain Education Intemala
For Private & Personal use only
www.jainelibrary.org