________________
बच्यात्म-1X सारा
॥३३३।।
टीका:-'नातीतमनुम्मरनि'-ज्ञानयोगी पूर्वानुमृतं सुखादिकं न स्मरति, 'नवाऽनागतं कामति' = भाविजन्यसुखादिक नेच्छति, शीते चोणे, सुखे च दुःखे, माने चापमाने सदा ममतावान भवति, कुत्राऽपि न विषीदति च न प्रमीदति ॥४८॥
जितेन्द्रियो जितक्रोधो, मानमायाऽनुपद्रुतः ।
लोभसंस्पर्शरहितो, वेदखेदविवर्जितः ॥ ४ ॥ टीका: 'यो ज्ञानयोगी, इन्द्रियविषयविजेता भवति, क्रोधविजेता भवति च, लोभसंस्पर्शेन रहितो, मानस्य मायायाश्चोपद्रवशून्यो भवति, पुरुषवेदादेर्भयंकरोदयजन्यखेदस्य विशेषेण वर्जन विशिष्टोऽर्थान्मोक्ष. मार्ग प्रति द्रुत गच्छतस्तस्य ग्लानि भवतीति "६॥
सन्निरुद्धयाऽऽत्मनाऽऽत्मानं, स्थितः स्वकृतकर्मभिन् ।
हठप्रयत्नोपरतः, सहजाऽऽचारसेवनात् ॥ ५० ॥ टीका:-शुद्धोपयोगस्वरूपेणाऽऽत्मना, भावमनःस्वरूपसङ्कल्पात्मकमात्मानं सम्यक्तया निरुदय च सदा सर्वकालमात्मस्वरूपे स्थितः-स्थिरतावान् भवेत् , 'स्वकृतकर्मभित्' पूर्वोपार्जित-स्वकर्मभेदकारी भवेत् , निकाचितकर्मबलात् महजरीत्या प्रवर्तमानो ज्ञानयोगी, इन्द्रियादीनां प्रत्याहाराय मनसि हठप्रयत्नरूपबलात्कारपूर्वकप्रवृत्तितः सर्वथा उपरतो-विरतो भवत्येवेति ॥५०॥
॥३३३॥
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org