________________
अध्यात्मसार:
॥३३२॥
तेषां 'निरपेशमुनीना =निःस्पृहिणां महात्मनां तु वैषम्ये साम्यदर्शनं दोषाय न भवति प्रत्युत रागद्वेषाजननद्वारा गुणायैव प्रभवति ॥४६।।
रागद्वेषक्षयप्रयुक्तविषयशून्यतापूर्णो ज्ञानीभवति'रागद्वेषक्षयादेति ज्ञानी विषयशून्यताम् छिद्यते भिद्यते वाऽयं, हन्यते वा न जातुचित् ॥४७॥
टीकाः-वैषम्ये साम्यस्य दर्शनं कुर्वतां ज्ञानिनां रागद्वेषक्षयो भवति, अर्थात् तेषां ज्ञानिना हृदयं विषयान गहणाति परन्तु इष्टानिष्टत्वरूपेण तान् विषयान् ग्रहीतु तु तेषां चित्तं सर्वथा शून्यं भवति, तत्पश्चाज्ज्ञानयोगिनः स्वस्य शरीरं केनचिन्छिद्यमानं भिद्यमानं हन्यमानं भवेत्तथाऽपि तत्सर्वमनिष्टमनिष्टत्वेन तच्चित्तं न गृहाति, अर्थात् कदाचिदपि स आत्मा, वस्तुतस्तु न च्छिद्यते न भिद्यते न हन्यते इति ॥४७॥ - श्लोकाष्टकं यावज्ज्ञानयोगिस्वरूपं निरूप्यते
'अनुस्मरति नातीतं नैव कातत्यनागतम् । शीतोष्णसुखदुःखेषु समो मानोऽपमानयोः ॥ ४८ ॥
Jain Education Inteme
A
For Private & Personal use only
I
www.jainelibrary.org