________________
अध्यात्म सार:
॥३३१॥
मृत्युस्थानतो निर्गत्यामृतपदं प्राप्तम् , यतः सर्वत्र ब्रह्म समं निर्दोष चास्ति, एप ज्ञानयोगी सर्वत्र समत्वंपश्यति, 'तस्माद् ब्रह्मणि ते स्थिताः'-तस्मात कारणात् समत्वस्वरूपे निदोषे ब्रह्मणि, आत्मज्ञानिनस्ते, सदास्थिरत्वसम्पना वर्तन्ते इति ।
टीका:-"प्रियं प्राप्य न प्रहायेत्'-यदिष्ट लम्वा तस्मिन्न लीनो भवेद् , 'नोद्विजेद प्राप्य चाप्रियं% अनिष्ट प्राप्य तस्माद् दीनो न भवेदतएव स 'स्थिरबुद्धिः स्थैर्यविशिष्टवुद्धिमान् भवति, "असंम्ढसंमोहाऽमावविशिष्टो भवति 'ब्रमवित्' वस्तुतः आत्मनोऽमृतपदवेत्ता भवति, 'ब्रह्मणि स्थितः'-चिदानन्दादि स्वरूपे स्थिरतावान् भवतीति ॥४५॥
निरपेक्षमुनीनां तु वैषम्ये साम्यदर्शनं रागोषक्षयाय'अर्वागदशायर्या दोषाय वैषम्ये साम्यदर्शनम् । निरपेक्षमुनीनां तु रागद्वेषक्षयाय तत् ॥ ४६॥
टीका:-ननु तत्तदात्मनि जातिकुलादिसत्कोच्चतानीचताजनितविषमता तु विद्यते एव तथाऽपि तद्विषमताया दर्शनं न कर्त्तव्यं च सर्वत्र सर्व समत्वेन दर्शनीयमित्येष किं दोषो नास्ति ? इति चेन्न वैषम्ये साम्यदर्शनमित्येतद्दोषरूपं विद्यते 'अग्दिशायां दोषाय वैषम्ये साम्यदर्शनम्' अर्थात् पूर्वावस्थायां कर्मयोगस्याराधनायां तद वैषम्ये साम्यदर्शनं दोषाय कन्पते परन्तु अर्वागदशामतिक्रम्याग्रे गता ये ज्ञानयोगिनः सन्ति
॥३३१॥
Jain Education Interational
Far Private & Personal use only
www.jainelibrary.org