________________
अध्यात्मसारः
॥३३०॥
___टीका:-इह एव जीवद्भिः एव तैसमदर्शिभिः पण्डितैः जितो वशीकृतः सों जन्म येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु श्वपाकादिषु मृढे। तदोषः दोषवद् इव विभाव्यते तथापि तद्दोषैः अस्पृष्टम् इति । निर्दोष दोषवर्जितं हि यस्मात् । अतः समं ब्रम एकं च तस्माद् ब्रह्मणि एव ते स्थिताः तस्माद् न दोषगन्धमात्रम् अपि तान् स्पृशति, देहादि संघाताऽऽत्मदर्शनाऽभिमानाऽभावात् इति शाङ्करभाष्यांशा भगवद्गीतायां । ४४॥
यस्माद् निर्दोष समं ब्रह्म आत्मा तस्मात्'न प्रहृष्येत् प्रियं प्राप्य, नोदिजेत् प्राप्य चाऽप्रियम् ।
स्थिरबुद्धिरसंमूढो, ब्रह्मविद् ब्रह्मणि स्थितः ॥ ४५ ॥ टीकाः-न प्रहृष्येद् न प्रहर्ष कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा, न उद्विजेत् प्राप्य एव च अप्रियम् अनिएं लब्ध्वा, देहमात्राऽऽत्मदर्शिना हि प्रियाऽप्रियप्राप्ति हविषादस्थाने न केवलात्मदर्शिनः तस्य प्रियाप्रियप्राप्त्यसंभवात् किञ्च सर्वभूतेषु एकासमो निर्दोष आत्मा इति स्थिरा निविंचिकित्सा बुद्धिर्यस्य स स्थिरबुद्धिः । असंमूढः संमोहवर्जितः च स्याद् यथोक्तो ब्रह्मविद् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसंन्यासी इत्यर्थः ।।
इति शाङ्करभाष्यम् भगवद्गीतायां 'अनया रीत्या येषां साम्ये स्थितं मनः' यैःसर्वत्र ब्रह्म रटं तैस्त इहैव अस्मिन् मनुष्यजन्मनि स्थित्वैव 'सगोंजितः' जन्ममरणसंसाररूपसर्गः, तीर्ण उत्तीर्णः, अर्थात् महा
॥३३॥
जकल
Jain Education Inteme
For Private & Personal use only
www.jainelibrary.org