________________
अध्यात्मसार:
॥३२७॥
वानस्ति (२) स वेदवान् आचाराङ्गाद्यागमरूपवेदवेत्तृत्वाद् वेदवानस्ति (३) स धर्ममयःस्वर्गाऽपवर्गमार्गस्वरूपस्य दुर्गतिपतज्जन्तूनां रक्षकस्य च धर्मस्य ज्ञातृत्वाद्धर्मविदस्ति (४) स ब्रह्ममयः सर्वथा निष्कल. कस्य योगसुखस्य ज्ञातृत्वाद् ब्रह्मविद्-ब्रह्ममयोऽस्ति, एतादृशबिशिष्टात्माऽपवादमार्गेण विषयस्य सावद्यकर्मणो वा सेवनमात्रेण कथं कर्मणा लिप्येत १ अपितु न लिप्यत एवेति ।। ३८ ॥ - विषमताथा मूलमज्ञानं ज्ञानयोगेन नश्यति -
वैषम्यबीजमज्ञानं, निघ्नन्ति ज्ञानयोगिनः ।
विषयांस्ते परिज्ञाय, लोकं जानन्ति तत्त्वत ।। ३१ ॥ टीका:-विषयनिष्ठेष्टत्वाऽनिष्टत्वादिवैचित्र्यस्य वीजं मूलकारणभूतमज्ञानं आत्मादितचाज्ञानं ज्ञानयोगिनो निघ्नन्ति' स्वप्रतिभाप्रकाशेन दूरतः क्षिपन्ति, अत एष वैषम्यदर्शनं दरे भवति, एवं स्थिते इष्टस्वाऽनिष्टत्वभानविरहितास्ते विषयाणां वास्तविकी प्रकृति क्षणविनश्वरस्वभावं विज्ञाय महात्मानस्तत्त्वतो लोकं जानन्ति-समस्तलोकस्वरूपमात्रस्य ज्ञातारो भवन्तीति ॥ ३९ ॥ - ज्ञानयोगिनो ज्योतिष्मन्तो भवन्ति -
इतश्चापूर्वविज्ञानाच्चिदानन्दविनोदिनः । ज्योतिष्मन्तो भवन्त्येते, ज्ञाननिषूतकल्मषाः॥ ४० ॥
॥३२७॥
JainEducation Intematic
For Private & Personal use only