________________
मध्यात्म
सार
॥३२५॥
- ज्ञानयोगी भोगैर्न लिप्यते जलजदलमिव जलेन -
'कर्मनकर्म्यवैषम्यमुदासीनो विभावयन ।
ज्ञानी न लिप्यते भोगैः पद्मपत्रमिवाऽम्भसा ॥ ३५ ॥ टीकाः-पूर्वकथितकर्माऽकर्मविषयकभङ्गानां वैषम्यं विभावयन-विचारणे विषयीकुच्चन ज्ञानी, कदाचित क्रियमाणेषु सांसारिककर्ममदासीनस्तिष्ठति. तस्माच भुज्यमान भोगन लिप्यते यथाऽम्भमा जलेन पद्मपत्र-कमलदलं न लिप्यते तथाऽत्रापि ज्ञेयमिति ।। ३५ ॥ - अनन्यपरमात् साम्यात् , ज्ञानयोगो भवेन्मुनिः -
'पापाऽकरणमात्राद्धि, न मौनं विचिकित्सया ।
अनन्यपरमात् साम्यात, ज्ञानयोगी भवेन्मुनिः॥३६ ॥ टीकाः- अपवादमार्गे आधाकर्मादिसावद्यकर्मणः सेवनमप्यापतेत्तथापि यदि तदानीं चित्त कश्चिद्रागादिसंक्लेशो न भवेत् , अनन्यपरमात साम्यान' असाधारणोत्कृष्टसमतासम्भृतो भवेत्तदा तज्ज्ञानयोगिनि सत्यमुनित्वमवश्यं वाच्यं भवेत् , परन्तु पापफनरूपदुर्गतिमंशयमावतः पापाऽकरण मात्रतः पापस्याऽकर्तरि सत्यमुनित्वं न कथनीयं स्यात् ॥ ३६॥
॥३२५॥
Jain Education International
Far Private & Personal use only
Parlwww.jainelibrary.org