________________
अध्यात्म
AR:
॥३२४॥
य एवं (तत्त्वतः) कर्माऽकर्मविभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु स युक्तो योगी कृत्स्नकर्मकृत च सः अशुभाद् मोक्षितः कृतकृत्यो भवति इत्यर्थः । इति भगवद्गीतायां शाकरभाष्यांशा उद्धृताः।। 'यः पुरुषः कर्म चाऽकर्म सम्यग् जानाति स योगयुक्तः सञ्जातेपु मत्कर्मसु बन्धनं न पश्यति, तस्मात् स कर्मणि अकर्ग पश्यति, चाऽकर्मणि कर्म पश्यति, अर्थानिष्कियेऽज्ञानतः स बन्धनकारकं कमैंव जानाति प्राज्ञा एतादृशाः पुरुषाः सर्वप्रवृत्तौ पूर्ण प्रतिभावन्तो भवन्त्यतो यद् विकर्म न भवेत् तादृशं सर्व कर्म योगतः कुर्वन्ति ॥३२॥३३॥ - जैनमते कर्माऽकर्मविषयकभङ्गानां पैचित्र्यं दर्शयति -
'कर्मण्यकर्म वा कर्म, कर्म यस्मिन्नुभे श्रपि ।
नोभे वा भङ्गवैचित्र्या-दकर्मण्यपि नो मते ॥ ३४ ॥ . टीका:-'नो मते' -अस्माकं जैनमते पूर्वोक्तौ द्वौ भङ्गो केवलं न स्तोऽपि तु भङ्गानां वैचित्र्यकारणेन वहवो भङ्गा भवन्त्येव तथाहि=(१) कर्मणि अकर्मदर्शनरूपो योगः (२) कर्मणि कर्मदर्शनरूपो योगः (३) कर्मणि कर्माऽकर्मदर्शनरूपयोगः (४) कर्मणि कर्माभावाऽकर्माभावदर्शनरूपयोगः (५) अकर्मणि अकर्मदर्शनरूपयोगः (६) अकर्मणि कर्मदर्शनरूपयोगः (७) अकर्मणि कर्माऽकर्मदर्शनयोगः () अकणि कर्माभावाऽकर्मामावदर्शनरूपयोगः ॥ ३४ ॥ ।
॥६२४॥
Jain Education Internatio
For Private & Personal use only
Tww.jainelibrary.org