________________
वन्यात्य
५३२३॥
स्तु नास्त्येव, मनो विनाऽपि तत्कर्म सेवनमापतति तस्मात्ततसावद्यकर्मसेवनतः पापकर्मणामनुबन्धो न पतति यत्कर्मणोऽशुभाऽनुवन्धो न पतति तत्कर्मणः सावद्यत्वेऽपि वस्तुतः सावधं न कथ्यतेऽशुभत्वेऽपि न वस्तुतोऽशुभं कथ्यते इति ॥ ३१ ॥
- कर्माऽप्याचरतो ज्ञातुर्मुक्तिभावो न होयते - कर्माऽप्याचरतो ज्ञातुर्मुक्तिभावो न हीयते । तत्र सङ्कल्पजो बन्धो गीयते यत्परैरपि ॥ ३२ ॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धिमान मनुष्येषु, स युक्तः कृत्स्नकर्मकृत् ॥ ३३ ॥ टीका:-यो ज्ञाताऽस्ति तस्यापवादमार्गेण सावध कर्माचरतोऽपि मुक्तिभावो न बाध्यते यत आत्मनि कर्मणो वन्धो, हिंसादेः सड़कन्पतः पतति यत्परैरपि गीयते भगवद्गीतायां कर्मणि कर्म क्रियते इति व्यापारमात्रं तस्मिन् कर्मणि अकर्म कर्माभावं यः पश्येद्, अकर्मणि च कर्माभावे क तन्त्रत्वात् प्रवृत्तिनिवृत्त्योः । वस्तु अप्राप्य एव हि सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव कर्मयः पश्येत् पश्यति स बुद्धिमान् ॥३२३॥ मनुष्येषु स युक्तो योगी कृत्स्नकर्मकृत् समस्तकर्मकत च स इति स्तूयते कर्माऽकर्मणोः इतरेतरदर्शी ।
Jain Education Intematy
Far Private & Personal use only
ww.jainelibrary.org