________________
अध्यात्मसारः
२२॥
ऽतिनिन्धकर्मत्वायुष्माकं शिष्टपुरुषैः स हेयत्वेनोद्घोषितोऽस्ति श्येनयागस्य कर्म वेदविहितत्वेऽपि पिचशुदिन जनयत्येव एवं स्वरूपतः सावद्यकर्मरूपा म्लेच्छानां गोहिंसाश्येनयागादिकर्मतोऽपि चित्तदोषसंन्यासः कथं भवेत १ अपितु न सम्भवति यतो यज्ञयागादौ च गोहिंसादौ कर्मणि सावधतादृष्ट्या न किमप्यन्तरमस्ति अतः स्वरूपतः सावद्यकर्माणि, चित्तशोधकानि न भवेयुरेवं मन्तव्यमेव ततोऽज्ञानिना यत्रयागादिकर्माण्यपि स्वरूपसावद्यानि सन्ति, ततस्तानि चित्तशोधकानि न भवन्तीति प्रतिपत्तव्यमेव, यानि कर्माणि चित्तशोधकानि न भवन्ति तानि कर्मयोगत्वेन न कथ्यन्ते, कर्मयोगस्तु चित्तशुद्धिबननद्वारा ज्ञानयोगस्य साधको भवतीति ॥ ३० ॥
- सावधं कर्म, तस्मान्नादेयं बुरिविप्लवात् । 'सावद्य कर्म नो तस्मा-दादेयं बुद्धिविप्लवात् ।
कर्मोदयाऽऽगते स्वस्मि-नसङ्कल्पादबन्धनम् ॥ ३१ ॥ टीका:-तस्माद् यज्ञयागादि यावत् साऽवद्यं कर्म नादेयं नोपादेयं यावनादरणीयम् यतः बुद्धिविप्लवात' मावद्यानि कर्माणि चित्ते हिंसाऽऽन्मकपरिणामजननद्वारा, सद्बुद्धिविध्वंसकारकाणि भवन्ति, ननु ज्ञानयोगी कदाचिदपि सावद्यं कर्म न सेवेतेति चेत्र, असातवेदनीयकर्मोदयेनाऽसह्यरोगादेरुपद्रवो यदाऽऽपतेत्तदा कदाचिदाधाकर्मादिसावद्यकर्मसेवनस्याऽभियोग आपतेत्तदाऽपि तत्सावद्यकर्मसेवनाय मनोवृत्ति
Far Private & Personal use only
॥३२२॥
Jain Education InternalIQI
|www.jainelibrary.org