________________
सति चित्तशुद्धिरपि भवेत्ततो ज्ञानयोगोऽपि प्राप्तः स्यादिति चेन्न यो यज्ञयागादिर्वाङ्मात्रः कर्मयोगोऽस्ति अध्यात्म-IXI यतः स आत्माऽज्ञानभावतोऽथवा स्वरूपतः (हिंसाऽऽत्मकत्वेन) सावद्यो-अवद्यसहितोऽस्ति, तस्मात्ततो सार
दोषसन्न्यासश्चित्तशुद्धिश्च न भवितु शक्येते यत्र चित्तं हिंसाऽऽत्मकप्रवृत्तिकरणसंक्लिष्टपरिणामोऽस्ति,
तत्र चित्ते तादृश्या प्रवृत्त्या कुतः शुद्धिसम्भवः स्याद् ? इति ॥ २९ ॥ ॥३२॥ - वेदविहितमपि स्वरूपतः सावयं कर्म चित्तशोधकं न भवति -
'नो चेदित्थं भवेच्छुद्धिोहिंसाऽऽदेरपि स्फुटा ।
श्येनाद्वा वेदविहिताद् विशेषाऽनुपलक्षणात् ॥ ३० ॥ ___टीकाः-यदि वेदमानिनामेतादृश आग्रहः स्याद् यद् 'स्वरूपतः सावद्यमपि यज्ञादिकर्म चित्तशुद्धि जनयत्येवेति, तदा स्वेष्ट देवतासमक्षं म्लेच्छादिमि यद्गोवधादिकं कर्म क्रियते तदपि चित्तशुद्धिं किं न जनयेत ? ततो ज्ञानयोगोऽपि कि न सिद्धयेत ? तत्राऽपि तु युष्माकमपि निषेधो वर्तते, ननु तत्र तु वेदविहितं नास्त्यतो निषेधोऽस्ति परन्तु यत्कर्म वेदविहितं भवेत्तत्स्वरूपतः सावद्यमपि भवेत्तथाऽपि ततश्चित्तशुद्धिरवश्यं भवेदिति चेत्र, एवं सुष्टु तथापि श्येनयागस्तु वेदविहितोऽस्ति 'येन शत्रवधः कर्त्तव्यस्तेन श्येनयागः, कर्तव्योऽस्ति एतादृशं वेदोक्तमस्ति, एष श्येनयागः, दुर्गतेग्नुबन्धस्य भयंकरतादिं दृष्ट्वा
Jain Education Intemato
For Private & Personal use only
W
ww.jainelibrary.org