________________
अध्यात्म सारः
श्रत एव हि सुश्राद्ध-चरणस्पर्शनोत्तरम् ।
दुष्पालश्रमणाचार-प्रहणं विहितं जिनैः ॥ २६ ॥ टीकाः-अन एव जिनेश्वरैः, प्राक् , सुश्राम्य-समीचीनदेशविरतस्य-श्रावकस्य, सम्यक्त्वमूलद्वादशव्रतादिदेशविरतिरूपचारित्रस्य म्पर्शनाकालादनन्तरं दुप्पालश्रमणाचारग्रहणं विहितं' दुःसाध्यजैनसाधुसत्कपंचमहाव्रतादिपालनरूपाचारम्य ग्रहणं निरूपितं देशविरतस्य जीवनमपेक्षया कर्मयोगप्रधानमस्ति, मुनिजीवनमपेक्षया ज्ञानयोगप्रधानमस्ति ज्ञेयमिति ॥२६॥ - एवं निरुक्तक्रमस्य कारणं प्रदर्यते -
एकोद्दे शेन संवत्तं कर्म यत् पौर्वभूमिकम् ।
दोषोच्छेदकरं तत् स्यात् , ज्ञानयोगप्रवृद्धये ॥ २७ ॥ टीका:-एवं क्रमस्य कारणमस्ति यद् 'विरतिरूपमेकमुद्देश्यं कृत्वा देशविरतिरूपपूर्वभूमिकायां यत्कर्म संवृत्तं'-स्थूलप्राणातिपातादिविरमणरूपव्रतपालनबन्यं यत्कर्म जातं वा प्रवृत्तं तत्कर्म, पुरस्तात् सिध्यतज्ञानयोगस्य प्रवृद्धये, 'दोषोच्छेदकरं स्यात्' अन्तरागत्य प्रतिबन्धकराणां दोषाणामुच्छेदकर भवेद् वस्तुस्थितिरेतादृश्येव, तस्माज्यानयोगं सिसाधयिषुभिर्वाधिकदोषप्रक्षालनाय प्राक् कर्मयोग एव प्रतिपत्तव्य इति ॥ २७ ॥
Jain Education Internati
Foar Private & Personal use only
www.jainelibrary.org