________________
अध्यात्मसारः
॥३१६॥
दण्डनिधानमार्जवं ततस्ततश्योपरमः क्रियाभ्यः ॥ महा० शान्ति• १७५।३७ इति• शाङ्करभाष्यम् भग: वद्गीतायां ॥३॥
सङ्कल्पसन्यासरूपयोगमारोदुमिच्छोः साधकमुनेः सतक्रियारूपं कर्मकारणत्वेनाऽपेक्षितं यदा योगारहस्य तस्य मुनेः कर्मणोऽपेक्षा नास्ति, परन्तु कर्मयोगप्राप्य (प्राप्त) शमस्यैवापेक्षा वर्तत एव शमयोग एव योगारूढदशायां तं मुनि स्थिरीकरोति, योगारूढस्यात्मनःसर्वथा सङ्कल्पा विनाशं न गताः सन्ति, परन्तूपशान्ता एव, यतःक्षीणदोषा योगातीता उच्यन्ते अर्थाद्योगारूढस्योपशान्तसङ्कल्पस्य (सन्न्यस्तसङ्कल्पस्य) पुनः सङ्कन्पोन्थानस्य शक्यतयाऽनुत्थानकृते सङ्कल्पस्य शमभावोऽत्यन्ताऽऽवश्यक एवेति ॥२१॥२२॥ - योगारूदस्य वर्णनम् -
'यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्यते ।
सर्वसङ्कल्पसन्न्यासी, योगारूदस्तदोच्यते ।।२३।। टीकाः-यदा समाधीयमानचिनो योगी हि इन्द्रियाऽर्थेषु इन्द्रियाणाम् अर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु बनिन्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाऽभावबुद्धया नाऽनुपज्यते अनुषङ्ग कर्तन्यताबुद्धिं न करोति इत्यर्थः । सर्वसङ्कल्पसंन्यासी सर्वान सहकल्पान् इहामुत्रार्थकामहेतून संन्यसितु शीलं अस्य इति सर्व सङ्कल्पसंन्यासी, योगारूडः प्राप्तयोग इति एतत् तदा तस्मिन् काले उच्यते । सर्व
॥३१६॥
Jan Education Interc
For Private & Personal use only