SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ५३१५।। Jain Education Internationa कर्मयोगज्ञानयोगयोर्मर्यादा 'श्रभ्यासे सत्क्रियाऽपेक्षा, योगिनां चित्तशुद्धये । ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतम् ॥ २१ ॥ श्रारुरुक्षो मुने र्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते || २२ || टीकाः- योगाऽभ्यासकाले योगिनां चित्तशुद्धये, आवश्यकादिका सत्क्रियाऽपेक्षा वर्त्तते, किश यदा यदा तत् सत् क्रियायां सत्यां परिपक्वज्ञानदशा (उपशान्तदशा) पुनः पुनः कृतायामेव प्राप्यते तदा तत् सत्क्रिया नाऽपेक्ष्यते, मात्रं सम्प्राप्तेन्द्रियमनसोः शमनमपेक्ष्यते (भगवद्गीतायां व्यासमुनिनाऽप्युक्तं हि-'आरुरुक्षोः आरोढुम् इच्छतः अनारूढस्य ध्यानयोगे अवस्थातुम् अशक्तस्य एवेत्यर्थः, कस्य जारुरुक्षोः, सुनेः कर्मफलसंन्यासिन इत्यर्थः किमारुरुक्षोः योगं, कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्य एव शम उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनम् उच्यते इत्यर्थः । यावद् यावत् कर्मभ्य उपरमते तावत् तावद् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगाast भवति तथा चोक्तं व्यासेन- नैतादृशं ब्राह्मणस्याऽस्ति वित्तं यथैकतासमतासत्यता च शीलं स्थिति For Private & Personal Use Only ॥३१५॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy