SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-IN सारः ॥३१४॥ कुत्रापि विनष्टा जातेति कुलवधाश्च रक्षणं श्रुत्वा यतिमुनिः, नित्यं संयमसम्बन्धियोगेषु व्यापूताऽऽत्मा' = क्रियावानात्मा भवेत , कदापि निष्कर्मा न तिष्ठेदिति ॥ १८ ॥ - निश्चयव्यवहारदशायां क्रियाव्यवस्थाविभागः - 'या निश्चयैकलीनानां, क्रिया नातिप्रयोजनाः । व्यवहारदशास्थाना, ता एवातिगुणावहाः ॥ ११ ॥ टीकाः-निश्चयधर्म एवाऽऽत्मनि मावितो येस्तेषां निश्चयैकलीनानां महात्मना या आवश्यकादिकाः क्रिया 'नातिप्रयोजनाः =अत्यन्तप्रयोजनरहिताः, व्यवहारदशास्थानां ता एव'=ता आवश्यकादिकाः क्रिया एव अतिगुणावहा:-अत्यन्तलाभकारिका एवेति ॥ १९ ॥ __ अहामेधाऽऽदियोगतः शुद्धस्य कर्मणोऽपि मुक्तिहेतुत्वमक्षतम् कर्मणोऽपि हि शुद्धस्य; श्रद्धामेधाऽऽदियोगतः। अक्षतं मुक्तिहेतुत्वं, ज्ञानयोगाऽनतिक्रमात् ॥ २० ॥ टीका:-ननु किमन्ततो गत्वा ज्ञानयोगस्यैव मुक्तिहेतुत्वं न क्रियाया इति चेत्र शुद्धायाः कायोसर्गादिरूपक्रियाया अपि वधमान-श्रद्धा-मेधा-धृति-धारणाऽनुप्रेक्षासहकृताया मुक्तिहेतुत्वं सङ्गतिमङ्गति यतः शुद्ध कर्मणि ज्ञानयोगस्याऽतिक्रमो न भवति, ज्ञानयोगस्य तु तत्रामतत्वं वर्तत एवेति ॥२०॥ ॥३१४॥ Jain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy