SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३११॥ - स्थिरीभूतमनसः पुनश्चतत्वे स्थिरीकरणप्रक्रिया - 'स्थिरीभूतमपि स्वान्तं, रजसा चलतां व्रजेत् । प्रत्याहृत्य निगृहणाति, ज्ञानी, यदिदमुच्यते ॥ १४ ॥ शनैः शनैरुपरमेद् , बुद्धया घृतिगृहीतया । श्रात्मसंस्थं मनः कृत्वा, न किञ्चिदपि चिन्तयेत् ॥ १५ ॥ मग. गी.६-२५ यतो यतो निःसरति. मनश्वञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १६ ॥ भ. गी. ६-२६ टीका:-आत्मनि स्थिरीभृतं मनोऽपि रजोभावस्योदये (मोहोदये) कदाचिच्चलता व्रजेत् परन्तु तदा यो ज्ञानयोगी महात्माऽस्ति, म तु मनो विषयेभ्यः प्रत्याहृत्य निगृहणात्येन, अनया रीत्या प्रत्याहारोमनसः करणीय इति भगवद्गीतायामुक्तं हि-शनैः शनैः न सहसा उपरमेद् उपरतिं कुर्यात् । कया, बुद्धया किं विशिष्टया घृतिगृहीतया, धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम्'-आत्मनि संस्थितम् , आत्मा एव सर्व न ततः अन्यत् किश्चिद् अस्ति, इति एवम् आत्मसंस्थं मनः ॥३११॥ lain Education Inter Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy