________________
अध्यात्मसार:
॥३०७॥
नेव तस्य कृतेनाऽर्थो, नाऽकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु, कश्चिदर्थव्यपाश्रयः ॥ १ ॥ टीका:-अप्रमत्तभावे रममाणानां सप्तमादिगुणस्थाने च निर्विकन्पदशायां रममाणानां ज्ञानयोगिना महात्मना, आवश्यकादिक्रिया न नियता भवति, यतस्ते ध्यानस्वरूपेण तपसा शुद्धाः सन्ति, अतिचाररहितत्वेनाऽतिचारशुद्धिकरणरूपाऽऽवश्यकादिक्रियाया नियतं प्रयोजनं नास्ति अन्यैरपि वस्त्विदं कथितं स्वशास्त्रे तथाहि 'यः तु सामय आत्मज्ञाननिष्ठ आत्मरतिः आत्मनि एव रति ने विषयेषु यस्य स आत्मरतिः, एव स्याद् भवेद् आत्मतृप्तः च आत्मतृप्तश्च आत्मना एवं तृप्तो न अन्नरसादिना मानवोमनुष्यः संन्यासी, आत्मनि एव च सन्तुष्टः । संतोपो हि बाबार्थलामे सर्वस्य भवति तम् अनपेक्ष्य आत्मनि संतुष्टः सर्वतो वीततृष्ण इति एतत । य ईरश आत्मवित तस्य कार्य-करणीयं न विद्यते-न अस्ति इत्यर्थे 'भगवद्गीतायां शाकूर-भाष्यम्' न एच तम्य परमान्मग्नेः कृतेन कर्मणां अर्थः प्रयोजनं अस्ति । अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः ।
न अकृतेन इह लोके (तस्य) कश्चन कश्चिद् अपि प्रत्यवायप्राप्तिरूप आत्महानिलक्षणो वा (अनर्थप्राप्तिः) न एव अस्ति । न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिद् अर्थव्यपाश्रयः (सम्बन्धः) 'भगवद्गीतायां शाङ्करभाष्यम्' 'यद् यावन्मनुष्यः स्वचित्तस्याऽऽत्यन्तिकी शुद्धिं कृत्वा 'स्थितप्रज्ञो' न
॥३०७॥
Jain Education Internation
Far Private & Personal use only
www.jainelibrary.org