________________
PC
अध्यात्म
सारः
॥३०८॥
भवति, तावत्तस्य जन्मनः कृतार्थता न प्राप्यते, तावत्तस्य च किश्चित्कर्त्तव्यं किञ्चिच्च न कर्त्तव्यमिति शेषं प्रतिभाति, तथापि यदा स स्थितप्रज्ञो भवति तदाऽऽत्मरतिरेवात्मतृप्तश्चात्मन्येव सन्तुष्टो मानवो भवति, तस्य कार्य न विद्यते, कर्मद्वारा प्राप्तव्यमवशिष्टं नास्ति । तस्य च कृतेन कर्मणाऽकृतेन कर्मणा नेह मानवे कश्चनार्थः-प्रयोजनं फलं अथवा चित्तशुद्धौ काचिद्वृद्धिः, काचिच्च हानिर्न भवतः, किश्चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयो न भवति, अर्थात् कार्याऽपेक्षा न भवतीति ॥७॥८॥९॥ ध्यानाश्रयतो ज्ञानयोगिनि हर्षशोकयो वकाश:
'श्रवकाशो निषिद्धोऽस्मिन्नरत्यानन्दयोरपि ।
ध्यानाऽवष्टम्भतः क्वाऽस्तु, तत्-क्रियाणां विकल्पनम् ॥ १० ॥ टीकाः-एष आत्मरतिरात्मा, ज्ञानयोगाराधनकाले धर्मशुक्लद्वयाऽन्यतरे ध्याने तादृशो लीनो भवति, यस्मात्तस्य भौतिकपदार्थस्य गन्धोऽपि नायाति, अत एव मनोज्ञाऽमनोज्ञपदार्थेष्पनतेषु हर्षशोकयोरवकाशो निषिद्धो-न सम्भवतीत्यर्थः 'क्वाऽस्तु तत् क्रियाणां विकल्पनम् 'दावश्यकादिक्रियाकलापविषयकमनःकर्मरूपविकल्पस्य कुतः सम्भवः ? अर्थादसम्भव एव ॥ १० ॥
क्रिया सा ज्ञानिनोऽसङ्गान्नव ध्यानघातिनी
॥३०८॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org