________________
अध्यात्म
मार
॥३४॥
।
संश्लेषो द्रव्यबन्धः, तद् हेतुभूताध्यवसायो मावबन्धः । तथामव्यतया प्रेरितो जन्तः परिणामतः पुण्यपापबन्धकः । भवस्थित्यनुसारेणात्मनो बन्धेऽपि प्रवृत्तिः । तन्वविषयक अवण-मनन-वारंवार स्मरण-साक्षादनुभवादिप्रक्रियया न बन्धबुद्धिरत आत्माऽबन्धः प्रकाशते योगिनां । कर्मद्रव्यक्षयो द्रव्यमोक्षः, तद्हेतुभूताऽऽत्मा रत्नत्रयाऽन्वयी भावमोक्षः । रत्नत्रयं मोक्षस्तदभावे न कृतार्थता । भावलिङ्गरताः सर्वसारविदः सिद्धयन्ति । भावलिङग हि मोक्षाङग । यथाजात--दशालिङग न मोक्षाङगम् । केवलिनो मूर्ध्नि वस्त्रक्षेपणेन केवलज्ञानपलायनं कथं ? । भावलिङगतो मोक्षो ध्रुनो भिन्नलिङगेपि । शुद्धाशुद्ध-निश्चयनयाभ्यामबद्धाऽमुक्ती बद्धमुक्तौ । अन्वयव्यतिरेकाम्यामात्मतच विनिश्चयं विद्वान कुर्यात नवतत्त्वेभ्योऽपि । निश्चयत आत्मतत्त्वचिन्तनं परमामृतज्ञानयोगरूपं । जानांश-दुर्विदग्धानां तत्त्वमेतदनर्थकृत । पूर्व व्यवहारकुशलो भूत्वा पश्चान्निश्चय जिज्ञासा कार्या। कृतव्यवहार-विनिश्चयः ततः शुद्धनयाश्रितः आत्मज्ञानरतो भूत्वा परमसाम्याश्रितो भवति ।
एकोनविंशोऽधिकार:-श्री जिनशासनं विशिष्ट जलनिधि श्रये । सदा विजयते विशिष्ट स्याद्वादकल्पद्रमः । विजयते विशिष्टमन्दरो जैनागमः । विशिष्ट-रविरूपो जैनागमो नन्दतात् । सोऽयं विशिष्ट जिनशासनाऽभृतरुचिः कस्यैसि नो रुच्यताम् जैनी दृष्टीरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते । सर्वपरदर्शनरूपनयेः सर्वथाऽऽदरणीयोऽयं जिनेन्द्रागमः । नायं कोपक्रमः सर्वहितावहे जिनमते तत्वप्रसिद्धयर्थिनाम् । नश्चेतो नितमा लीनं जिनेन्द्रागमे । जैनेन्द्रे तु मते शब्दार्थविषयक संदेहव्यथा न जात्यन्तरार्थ
15॥३४॥
Jan Education Intel